रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 82 verses
Verse 31
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उपहितमिति॥ शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे। `पलाशः किंशुकः पर्णः` इत्यमरः। उपहितं दत्तं मुकुलजालं कुड्यलसंहतिः। मदेन यापितलज्जयाऽपसारितत्रपया प्रमदया प्रणयिनी प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव॥ अशोभत॥

Verse 32
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विशषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): व्रणेति॥ व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम्। जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत्। शैत्यात्त्याजितमेखलमित्यर्थः। एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि। किंतु विरलं कृतवांस्तनूचकार ॥

Verse 33
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अभिनयानिति॥ अत्र चूतलताया नर्तकीसमाधिरभिधीयते। अभिनयानर्थव्यञ्जकान्व्यापारान्। `व्यञ्जकाभिनयौ समौ` इत्यमरः (अ.को.1|7|17)। परिचेतुमभ्यसितुमुद्यतेव स्थिता। कुतः? मलयमारुतेन कम्पितपल्लवा। `पल्लव`शब्देन हस्तो गम्यते। सकलिका सकोरका। `कलिका कोरकः पुमान्` इत्यमरः (अ.को.2|4|16)। सहकारलता। कलिः कलहो द्वेष उच्यते। `कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि`इति विश्वः। कामो रागः। तज्जितामपि। जितरागद्वेषाणामपीत्यर्थः। मनोऽमदयत् ॥

Verse 34
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): प्रथममिति॥ सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु। `गन्धस्य-` (पा.5।4।135) इत्यादिनेकारः। कुसुमान्यासां संजातानि कुसुमिताः। तासु वनराजिषु वनपङ्क्तिषु। अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अत एव मिताः परिमिता गिर आलापाः। प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव। शुश्रुविरे श्रुताः ॥

Verse 35
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): श्रुतीति॥ श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः। कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः। अनेन सस्मितत्वं विवक्षितम्। उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः। `लय` शब्देन लयानुगतोऽभिनयो लक्ष्यते। उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात्। पाणिभिरिव बभुः। अनेन तलानां नर्तकीसाम्यं गम्यते ॥

Verse 36
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): ललितेति॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम्। सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम्। `अथ केसरे। बकुलः` इत्यमरः। स्मरस्य सखायं स्मरसखम्। स्मरोद्दीपकमित्यर्थः। मधुं मद्यम्। `अर्धर्चाः पुंसि च` (पा.2।4।31) इति पुंसिङ्गता। उक्तं च-`मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्धर्चादिगणे पाठान्पुंसकयोर्मधुः॥` इति। पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः। परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥

Verse 37
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): शुशुभिर इति॥ विकचतामरसा विकसितकमलाः। मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः श्लथाः शिञ्जिता मुखरा मेखला यासां ताः। शिञ्जितेति कर्तरि क्तः। स्त्रिय इव शुशुभिरे ॥

Verse 38
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): उपययाविति॥ मधुना मधुसमयेन खण्डिता ह्रासं गमिता। क्षीयन्ते खलूत्तरायणे रात्रयः; खण्डिताख्या च नायिका ध्वन्यते। हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृत्तिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ` इति धातोः समागमनिर्वृतिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ` इति धातोः कर्तरि क्तः। वनितया सदृशं तुल्यं तनुतां न्यूनतां कार्श्यं चोपययौ ॥

Verse 39
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अपेति॥ हिमकरश्चन्द्रः। अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणैः। मकरोर्जितकेतनम्। मकरेणोर्जितं केतनं ध्वजो यस्य तम्। लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः। कुसुमचापं काममतेजयदशातयत्। `तिज निशाने` इति धातोर्ण्यन्ताल्लङ्। सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ॥

Verse 40
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कणकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): हुतेति॥ हुतहुताशनदीप्त्याऽऽज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम्। कर्णिकारमित्यर्थः। वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः। दसेषु केसरेषु च पेशलम्, सुकुमारपत्रकिञ्जल्कमित्यर्थः। आहितम्। प्रियैरिति शेषः। तत्कुसुमं युवतयोऽलके कुन्तले दधुः ॥