रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 95 verses
Verse 31
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): बलमिति॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत्। किंतु गुणवत्तापि गुणत्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा। विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं विस्वित्यत्र तूहनीयम्। तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय। न तु स्वार्थं परपीडनाय वा। बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय। न तृत्सेकाय बभूव तस्य धनं परोपयोगीति किं वक्तव्यम्। बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ॥

Verse 32
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। `नित्यमसिच्प्रजामेधयोः` (पा.5।4।122) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड॥

Verse 33
अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम् । उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम्। `सत्यापाश-` (पा.3।1।25)इत्यादिना `वीणा`शब्दादुपगानार्थे णिच्प्रत्ययः। ततस्तुमुन्। नारदो देवर्षी रवेः सूेर्यस्य संबन्धिना। उदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम। सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥

Verse 34
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् । अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): कुसुमैरिति॥ आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। `चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्` इत्यमरः (अ.को.1|7|6)। स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। `संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्` इत्यमरः (अ.को.2|6|135)। अहरत्किल। `किल`इत्यैतिह्ये ॥

Verse 35
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णा व्याप्ता मुनेर्नारदस्य परिवादिनी वीणा `वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥` इत्यमरः (अ.को.1|7|4)। पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजतीव मुञ्चतीव। ददृशे दृष्टा। भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम्। `वा नपुंसकस्य` (पा.7।1।79) इति वर्तमाने `आच्छीनद्योर्नुम्` (पा.7।1।80)इति नुम्विकल्पः ॥

Verse 36
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् । नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अभिभूयेति॥ साऽमरस्रग्दिव्यमाला। मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन। वीरुधां लतानाम्। `लता प्रतानिनी वीरुत्` इत्यमरः (अ.को.2|4|9)। ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनीं विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानम् । आप प्राप्ता ॥

Verse 37
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामत्रलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥
सञ्जीविनीटीका (मल्लिनाथः): क्षणमिति॥ सुजातयोः सुजन्मनोः। सुन्दरयोरित्यर्थः। स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम्। सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः। तां स्रजमवलोक्येष्द्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा। `तमस्तु राहुः स्वर्भानुः` इत्यमरः (अ.को.1|3|28)। हृतचन्द्रा कौमुदी चन्द्रिकेव। निमिमील मुमोह, ममारेत्यर्थः। `निमीलो दीर्घनिद्रा च` इति हलायुधः। कौमुद्या निमीलनं प्रतिसंहारः ॥

Verse 38
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् । ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): वपुषेति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन। `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि` इत्यमरः (अ.को.3|3|61)। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म। तथा हि-निषिच्यत इति निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव। `ननु`अत्रावधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु` इत्यमरः (अ.को.3|3|263)। इन्दुमत्या दीपार्चिरुपमानम्। अजस्य तैलबिन्दुः। तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥

Verse 39
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तिरवेण विजिताः । विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥
Metre: गीति
सञ्जीविनीटीका (मल्लिनाथः): उभयोरिति॥ उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ॥

Verse 40
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता । प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नृपतेरिति॥ नृपतेरजस्य तमोऽज्ञआनं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। `आदि`शब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथा` हि-प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने। `आयुर्जीवितकालो ना` इत्यमरः (अ.को.2|8|120)। फलाय सिद्धये कल्पत आरोग्याय भवति, नान्यथा। नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम्। तस्यास्तु तदभावाद्वैफल्यमित्यर्थः ॥