रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 95 verses
Verse 21
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्षअय तत्फलम् । रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पणबन्धेति॥ `पणबन्धः संधिः` इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। `संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः` इत्यमरः (अ.को.2|9|12)। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। `प्रोपाभ्यां युजेरयज्ञपात्रेषु` (पा.1।3।64)इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। `लोष्टानि लेष्टवः पुंसि` इत्यमरः (अ.को.2|9|12)। रघुरपि गुणत्रयं सत्त्वादिकम्। `गुणाः सत्त्वं रजस्तमः` इत्यमरः (अ.को.1|4|31)। प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥

Verse 22
न नवः प्रभुरा फळलोदयात्स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात् फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः। जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्`(वा.1079) इत्यपादानात्पञ्चमी। `व्याङ्परिभ्यो रमः` (पा.1।3।83)इति परस्मैपदम्। स्थिरधीर्निश्चलचित्तो नवेतरो रघुश्चापरमात्मदर्शनात् परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ॥

Verse 23
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषुप च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ। `तत्परे प्रसितासक्तौ` इत्यमरः (अ.को.3|1|9)। उभघावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम्। `उभादुदात्तो नित्यम्` (पा.5।2।44) इति तपप्प्रत्ययस्यायजादेशः। `टिड्ढा-` (पा.4।1।15)इति ङीप्। सिद्धिं फलमवापतुः। उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः॥

Verse 24
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्ठिः सन्नजव्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि। `समा वर्षं समं तुल्यम्` इति विश्वः। गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन। `संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः`इति वसिष्ठः। अव्ययमविनाशिनं तमसः परमविद्यायाः परम्। मायातीतमित्यर्थः। पुरुषं परमात्मानम्। आपात् प्राप। सायुज्यं प्राप्त इत्यर्थः॥

Verse 25
श्रउतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः । विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ॥
सञ्जीविनीटीका (मल्लिनाथः): श्रुतेति॥ अग्निचिदग्निं चितवानाहितवान्। `अग्नौ चेः` (पा.3।2।91) इति क्विप्प्रत्ययः। राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम्। अग्निसंस्काररहितमित्यर्थः। नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारंमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे। `अनग्निं विधिम्`इत्यत्र शौनकः-`सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया। निदध्यात्प्रणवैनैव बिलेभिक्षोः कलेवरम्। प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥`इति ॥

Verse 26
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन तथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अकरोदिति॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा करणेन न पितुः परलोकसुखापेक्षया। मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम्। देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्। `ऊर्ध्वं देहाञ्च` इति वक्तव्याट्टक्प्रक्ययः। अनुशतिकादित्वादुभयपदवृद्धिः। ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-न हीति। तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥

Verse 27
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय। शोको न कर्तव्य इत्युपदिश्येत्यर्थः। सदर्थविदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः। `पुंस्याधिर्मानसी व्यथा` इत्यमरः (अ.को.1|7|30)। सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन्। जगत् कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम्। आत्माज्ञाविधेयमित्यर्थः। कृतवांश्चकार ॥

Verse 28
क्षितिरिन्दुमती च भामिनी पतिमासाद्यत तमग्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥
सञ्जीविनीटीका (मल्लिनाथः): क्षितिरिति॥ क्षितिर्मही भामिनी कामिनीन्दुमती च। `भामिनी कामिनी च` इति हलायुधः। अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य। तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरतन्सूरभूत्। `रत्नं स्वजातिश्रेष्ठेऽपि` इत्यमरः (अ.को.3|3|134)। अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म। जायतेर्णौ लुङि रूपम्। सहोक्त्या सादृश्यमुच्यते॥

Verse 29
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): दशेति॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम्। यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम्। दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम्। आख्यया नाम्ना दशपूर्वो `दश` शब्दपूर्वो रथो रथशब्दस्तम्। दशरथमित्यर्थः। बुधा विद्वांसो विदुर्वदन्ति। `विदो लटो वा` (पा.3।4।83)इति झेर्जुसादेशः ॥

Verse 30
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): ऋषीति॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। `एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा` इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः` इत्यमरः (अ.को.1|3|36)। मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। `परिवेषस्तु परिधिः` इत्यमरः (अ.को.1|3|36)। मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ॥