रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 95 verses
Verse 11
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः । पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): गुणवदिति॥ दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि तेषां संयमिनां यतीनां पदवीं प्रपेदिरे। यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥

Verse 12
तमरण्यसमाश्रयोमन्मुखं शिरसा वेष्टनशोभिना सुतः । पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः। वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य। आत्मनोऽपरित्यागमयाचत। मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ॥

Verse 13
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): रघुरिति॥ आत्मजप्रियः पुत्रवत्सलो रघुः। अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान्। किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥

Verse 14
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि` पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपि `ब्राह्मणाः प्रव्रजन्ति` इति श्रुतेः। `आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्`(6।38) इति मनुस्मरणात्। `मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥` इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापि `यदहरेव विरजेत्तदहरेव प्रव्रजेत्` इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्। `त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः` इति सूत्रकारवचनात्। `ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्`(मनु.10।117) इति स्मरणात्। `मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥` इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सति `स किलाश्रममन्त्यमाश्रितः`(8।14)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते `विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्`(8।25) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥

Verse 15
प्रशमस्थइतपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥
सञ्जीविनीटीका (मल्लिनाथः): प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत्। अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत्। प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप। न च `नभसा तुलाम्` इत्यत्र `तुल्यार्थैः-` (पा.2।3।72) इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचि`तुला` शब्दविषयत्वात्। `कृष्णस्य तुला नास्ति` इति प्रयोगात्; अस्य च सादृश्यवाचित्वात् ॥

Verse 16
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): यतीति॥ यतिर्भिक्षुः। पार्थिवो राजा। तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोः। धर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः। भुवं गतौ भूलोकमवतीर्णावंशाविव। जनैर्ददृशाते दृष्टौ ॥

Verse 17
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः । अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अजितेति॥ अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः। तैर्योगिभिः समियाय संगमः। उभयत्राप्युपायचिन्तार्थमिति शेषः ॥

Verse 18
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा । परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नृपतिरिति॥ युवा नृपति रजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम्। दुष्टादुष्टपरिज्ञानार्थमित्यर्थः। व्यवहारासनं धर्मासनम्। आददे स्वीचकार। प्रवयाः स्थविरो नृपती रघुस्तु। `प्रवयाः स्थविरो वृद्धः` इत्यमरः (अ.को.2|6|42)। धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम्। उपांशु विजने। `उपांशु विजने प्रोक्तम्` इति हलायुधः। कुशैः पूतं विष्टरमासनमाददे। `यमादिगुणसंयुक्ते मनसः स्थइतिरात्मनि। धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥` इति वसिष्ठः ॥

Verse 19
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अनयदिति॥ एकोऽन्यतमः। अज इत्यर्थः। अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्षिणिग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्। `कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता` इति मिताक्षरायाम्। अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन। `योगाभ्यासार्कयोषितोः` इति विश्वः। शरीरगोचरान्देहाश्रयान्पञ्च मरुतः पाणादीन्वशमनयत्। `प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। शरीरस्थाः` इत्यरमः ॥

Verse 20
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् । इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अकरोदिति॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कार्त्स्न्येन भस्मीकृतवान्। `विभाषा साति कार्त्स्न्ये` (पा.5।4।52)इति सातिप्रत्ययः। इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते। स्वकर्माणि दग्धुं प्रघृत्त इत्यर्थः। `ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन इति गीतावचनात्`॥

Showing 11 to 20 of 95 verses