रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 82 verses
Verse 21
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगश्रृङ्गपरिग्रहाम् । अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अजिनेति॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम्। `कृष्णाजिनं दीक्षयति। औदुम्बरं दीक्षितदण्डं यजमानीय प्रयच्छति` इति वचनात्। कुशमयी मेखला यस्यास्तां कुशमेखलाम्। `शरमयी मौञ्जी वा मेखला। तया यजमानं दीक्षियती`ति विधानात्। प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम्। यतगिरं वाचंयमम्। `वाचं यच्छति` इति श्रुतेः। मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्। `कृष्णविषणया कण्डूयते` इति श्रुतेः। अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन्। असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥

Verse 22
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अवभृथेति॥ अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे। `जलं नीरं वनं सत्त्वम्` इति शाश्वतः। मनुचेररये केवलमिन्द्रायैव नमयति स्म। न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ॥

Verse 23
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): असकृदिति॥ एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्बहुशो दिनकरस्याभिमुखाः। अभिमुखस्थिता इत्यर्थथः। रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ॥

Verse 24
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेरजसेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भाो यस्य स समधुरः। माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। `ऋक्पूरब्धूः-` (पा.5।4।74) इत्यादिना समासान्तोऽच्प्रत्ययः। तं समधुरम्। अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव। मधुर्वसन्तः। `अथ पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च मधुः` इति विश्वः। नवैः कुसुमैरुपलक्षितः सन्, समाववृत्ते समागतः। `रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्` इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥

Verse 25
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): जिगमिषुरिति॥ धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छुः। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ॥

Verse 26
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): कुसुमेति॥ आदौ कुसुमजन्म। ततो नवपल्लवाः। तदनु। `अनुर्लक्षणे` (पा.1।4।84) इति कर्मप्रवचनीयत्वाद्द्वितीया। यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम्। इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत्। केषाचिद्द्रुमामां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः ॥

Verse 27
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियभर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): नयेति॥ नयो नीतिरेव गुणः। तेन। अथवा, -नयेन गुणैः शौर्यादिभिश्चोपगचिताम्। सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव। मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः । अलयो मृङ्गान्। नीरपतत्रिणो जलपतत्रिणो हंसादयस्च। अभिययुः ॥

Verse 28
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): कुसुममिति॥ ऋतुरस्य प्राप्त आर्तवम्। `ऋतोरण्` (पा.5।1।105)इत्यण्। नवं प्रत्यग्रमशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न। किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसंतानोऽपि स्मरदीपनोऽभवत् ॥

Verse 29
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): विरचिता इति॥ मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः। भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः। दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥

Verse 30
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥
Metre: द्रुतविलम्बितम्
सञ्जीविनीटीका (मल्लिनाथः): सुवदनेति॥ सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः। तत्तस्य दोहदमिति प्रसिद्धिः। तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः करणैः बकुलं बकुलवृक्षमाकुलमकरोत् ॥