रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 86 verses
Verse 21
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सप्तेति॥ हे देव! त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम्। `तद्धित्तार्थ-` (पा.2।1।51) इत्युत्तरपदसमासः। सप्तानामर्णवानां जलं सप्तार्णवजलम्। पूर्ववत्समासः। तत्र शेते यः स सप्तार्णवजलेशयः। तम्। `शयवासवासिष्वकालात्` (पा.6।3।18) इत्यलुक्। सप्तार्चिर्मुखं यस्य तम्। `अग्निमुख! वै देवा` इति श्रुतेः। सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम्। एवंभूतमाचख्युः ॥

Verse 22
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः । चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): चतुरिति॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः। `त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः` इत्यमरः (अ.को.2|7|62)। तत्फलकं यज्ज्ञानम्। चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम्। चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः। चातुर्वर्ण्यप्रचुर इत्यर्थः। `तत्प्रकृतवचने मयट्` (पा.5।4।21)। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना तद्धितार्थे विषये तत्पुरुषसमासः। स लोकः। इत्येवंरूपं सर्वं चतुर्मुखाञ्चतुर्मुखरूपिणस्त्वत्तः। जातमिति शेषः। `इदं सर्वमसृजत यदिदं किंच`(तैत्ति.2।6) इति श्रुतेः ॥

Verse 23
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अभ्यासेति॥ अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम्। तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थविचिन्वन्त्यन्विष्यन्ति। ध्यायन्तीत्यर्थः ॥

Verse 24
अजस्य गृह्णतो जन्म निरीहस्य हतद्विपः । स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव? ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अजस्येति॥ न जायत इत्यजः। `अन्येष्वपि दृश्यते` (पा.3।2।101) इति डप्रत्ययः। तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः मत्स्यादिरूपेण जायमानस्य। निरीहस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः। इत्थं विरुद्धचेष्टस्य तव याथार्थअयं को वेद वेत्ति? `विदो लटो वा` (पा.3।4।84)इति णलादेशः ॥

Verse 25
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः । पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शब्देति॥ किंच, कृष्णादिरूपेण शब्दादीन्विषयान्भोक्तुम्। नरनारायणादिरूपेण दुश्चरं तपश्चरितुम्। तथा दैत्यमर्दनेन प्रजाः पातुम्। औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि। भोग-तपसोः पालनौ-दासीन्ययोश्च परल्परविरुद्धयोराचरणे त्वरन्यः कः समर्थ इत्यर्थः ॥

Verse 26
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः । त्वय्येव निपतन्त्योधा जाह्नवीया इवार्णवे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बहुधेति॥ आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धि-हेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नव्या इमे जाह्नवीया गाङ्गाः। `वृद्धाच्छः` (पा.4।2।114) इति छप्रत्ययः। ओधाः प्रवाहाः। तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च। अर्णव इव त्वय्येव निपतन्ति प्रविशन्ति। येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः। यथाहुराचार्याः-`किं बहुना कारवोऽपि विश्वकर्मेत्युपासते` इति ॥

Verse 27
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् । गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वयीति॥ त्वय्यावेशितं निवेशितं चित्तं यैस्तेषाम्। तुभ्यं समर्पितानि कर्माणि यैस्तेषाम्। `मन्मना भव मद्धक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि कौन्तेय ! प्रतिजाने प्रियोऽसि मे॥` (गी.9।34)इति भगवद्वचनात्। वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये। मोक्षायेत्यर्थः। त्वमेव गतिः साधनम्। `तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय` (श्वेता.6।15) इति श्रुतेरित्यर्थः ॥

Verse 28
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव । आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यक्ष इति॥ प्रत्यक्षः प्रत्यक्षप्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैश्वर्यमपरिच्छेद्यः। इयत्तया नावधार्यः। आप्तवाग्वेदः। `यतो वा इमानि भूतानि जायन्ते`(तैत्तिरीय.3।1) इत्यादिश्रुतेः। अनुमानं `क्षित्यादिकं सकर्तृकं कार्यत्वात्, घटवत्`इत्यादिकम्। ताभअयां साध्यं गम्यं त्वां प्रति का कथा? प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम्, तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्यव्यमित्यर्थः ॥

Verse 29
केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): केवलमिति॥ स्मरणेन केवलं कृत्स्नम्। `केवलः कृत्स्न एकश्च` इति शाश्वतः। पुरुषं स्मर्तारं जनं पुनासि। यतः यदित्यर्थः। अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः। तव स्मरणस्यैवैतत्फलं, दर्शनादीनां तु कियदिति नावधारयाम इति भावः ॥

Verse 30
उदधेरिव रत्नानि तेजांसीव विवस्वतः । स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उदधेरिति॥ उदधे रत्नानीव। विवस्वतस्तेजांसीव। दूराण्यवाङ्भनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते। निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥