रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 86 of 86 verses
Verse 81
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): समान इति॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः। `नद्यृतश्च` (पा.5।4।153)इति कब्न भवति। `वन्दिते भ्रातुः` इति निषेधात्। तेषां भावः सौभ्रात्रम्। यवादित्वादण्। तस्मिन्समाने चतुर्णां तुल्येऽपि यथौभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः। तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः। `द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु` (पा.8।1।15) इत्यभिव्यक्तार्थे निपातः। क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥

Verse 82
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति॥ तेषां चतुर्णां मध्ये द्वयोर्द्वयोः। रामलक्ष्मणयोर्भरत-शत्रुघ्नयोश्चेत्यर्थः। यथा वायु-विभावस्वोर्वात-वह्न्योरिव। चन्द्र-समुद्रयोरिव च। ऐक्यमैकमत्यं कदाचन न बिभिदे। एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते। सहजः सहकारी हि वह्नेर्वायुः। चन्द्रवृद्धौ हि वर्धते सिन्धुः, तत्क्षये च क्षीयत इति॥

Verse 83
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्नुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च निदाघान्ते ग्रीष्मान्ते श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः। नातिशीतोष्णा। इत्यर्थः। दिवसा इव। प्रजानां मनो जह्नुः ॥

Verse 84
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स चतुर्धा। `संख्याया विधार्थे धा` (पा.5।3।42) इत्यनेन धाप्रत्ययः। व्यस्तो विभक्तः पृथिवीपतेर्दसरथस्य प्रसवः संतानः। चतुर्धाऽङ्गवान् मूर्तिमान् धर्मार्थकाममोक्षाणामवतार इव बभौ ॥

Verse 85
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गुणैरिति॥ गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरम्। चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम्। `तद्धितार्थ-` (पा.2।1।51) इत्यादिनोत्तरपदसमासः। तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव। आराधयामासुरानन्दयामासुः ॥

Verse 86
सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः । हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): सुरगज इति॥ भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव। पणबन्धेन फलसिद्ध्या व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव। युगपद्दीर्धैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव। तदीयैहरिसंबन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथः। चकाशे विदिद्युते ॥

Showing 81 to 86 of 86 verses