रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 86 verses
Verse 61
हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हेमेति॥ किंचेति चार्थः। हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता। वेगेनाकृष्टाः पयोमुचो मेघा येन तेन। सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ॥

Verse 62
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): बिभ्रत्येति॥ किंच, स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम्। न्यस्यत इति न्यासः। कौस्तुभ एव न्यासस्तम्। पत्या कौतुकान्न्यस्तम्। कौस्तुभमित्यर्थः। बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ॥

Verse 63
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कृतेति॥ किंच, दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः। परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपतस्थिर उपासांचक्रिरे ॥

Verse 64
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ताभ्य इति॥ पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः। `आख्यातोपयोगे` (पा.1।4।29) इत्यपादानत्वात्पञ्चमी। तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन्। आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि ॥

Verse 65
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विभक्तेति॥ एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु। प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव। अनेकधा विभक्तात्मा सन्। उवास ॥

Verse 66
अथाग्र्यमहिषीं राज्ञः प्रसूतिसमये सती । पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ राज्ञो दशरथस्य सती पतिव्रता। अग्र्या चासौ महिषी चाग्र्यमहिषी कौसल्या। प्रसूतिसमये प्रसूतिकाले। ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम्। `अपे क्लेशतमसोः` (पा.3।2।50)इति ङप्रत्ययः। ज्योतिरिव। तमोपहं तमोनाशकरं पुत्रं लेभे प्राप॥

Verse 67
राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राम इति॥ अभिरमन्तेऽत्रेत्यभिरामं मनोहरम्। अधिकरणार्थे घञ्प्रत्ययः। तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे। अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥

Verse 68
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा । रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रघ्विति॥ रघुवंशस्य प्रदीपेन प्रकाशकेन। अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन्। महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥

Verse 69
शय्यगतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शय्येति॥ शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण। सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव। बभौ ॥

Verse 70
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कैकेय्या इति॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी। `तस्यापत्यम्` (पा.4।1।92)इत्यणि कृते `केकयमित्रयुप्रलयानां यादेरियः` (पा.3।2।50)इतीयादेशः। तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः। यस्तनयः। प्रश्रयो विनयः श्रियमिव। जनयित्रीं मातरमलंचक्रे ॥