हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥
Metre: अनुष्टुप्
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥
Metre: अनुष्टुप्
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे ॥
Metre: अनुष्टुप्
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥
Metre: अनुष्टुप्
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥
Metre: अनुष्टुप्
अथाग्र्यमहिषीं राज्ञः प्रसूतिसमये सती । पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥
Metre: अनुष्टुप्
राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥
Metre: अनुष्टुप्
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा । रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥
Metre: अनुष्टुप्
शय्यगतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥
Metre: अनुष्टुप्
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥
Metre: अनुष्टुप्