रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 82 of 82 verses
Verse 81
इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन । एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थं गते प्रवृत्ते सति। वसुधाधिपेन राज्ञा। गतघृणो निष्करुणः, हन्तृत्वान्निष्कृप इत्यर्थः। अत एव तव वध्यो वधार्होऽयं जनः। `अयम्` इति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः। किं विधत्तामित्यभिहित उक्तः, `मया किं विधेयम्?`इति विज्ञापित इत्यर्थः। स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन्। `तुं काममनसोरपि` इति मकारलोपः। हुताशनवतः साग्नीनेधान् काषअठानि ययाचे। न चात्रात्मघातदोषः-`अनुषअठानासमर्थस्य वानप्रस्थस्य जीर्यतः। भृग्वग्निजलसंपतैर्मरणं प्रविधीयते॥` इत्युक्तेः ॥

Verse 82
प्राप्तानुगः सपदि शासनमस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः । अन्तर्निविष्टपदमात्मविनाशहेतुं शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): प्राप्तेति॥ प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काषअठसंभारणरूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलुप्तधृतिर्नष्टोत्साहः सन्। अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम्। अम्बुराशिरौर्वं ज्वलनं वडवानलमिव। `और्वस्तु वाडवो वडवानलः` इत्यमरः (अ.को.1|1|68)। दधद्धृतवान्सन्। निवृत्तः। वनादिति शेषः ॥

Showing 81 to 82 of 82 verses