रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 71 verses
Verse 31
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् । आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ आरम्भसिद्धौ कार्यसिद्धौ विषये। पूर्वं कृता कृतपूर्वा। सुप्सुपेति समासः। कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। `संविद्युद्धेप्रतिज्ञायां संकेताचारनामसु` इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम्। तदा तस्यैकाकित्वादिति भावः। `समरोपलभ्यम्` इति पाठे युद्धसाध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु। `आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि` इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्, अजस्य पन्थानमावृत्यावरुध्य तस्थौ ॥

Verse 32
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाञ्च ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): भर्तेति॥ अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत् तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा। आ समन्तात्। अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम्। `यौतकादि तु यद्देयं सुदायो हरणं च तत्` इत्यमरः (अ.को.2|8|28)। आहरणीकृता श्रीर्येन तथोक्तः सन्, राघवमजं प्रास्थापयत् प्रस्थापितवान्। स्वयमन्वगादनुजगाम च ॥

Verse 33
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तिस्र इति॥ कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गं पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा। `वसती रात्रिवेश्मनोः` इत्यमरः (अ.को.3|3|74)। `कालाध्वनोरत्यन्तसंयोगे` (पा.2।3।5) इति द्वितीया। पर्यात्यये दर्शान्त उष्णरश्मेः सूर्यात् सोमश्चन्द्र इव। तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ॥

Verse 34
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः । अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रमन्यव इति॥ नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः। अतो हेतोः समेताः संगताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ॥

Verse 35
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः । बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ दृप्त उद्वतः स राजन्यगणो राजसंघातः। भोजकन्यामुद्वहन्तं नयन्तं तमजम्। बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुवाणम्। त्रिविक्रमस्येमं त्रैविक्रमम्। पादमिन्द्रशत्रुः प्रह्लाद इव। पथिरुरोध। तथा च ब्राह्माण्डपुराणे-`विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन्। विषअणोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह ॥` इति ॥

Verse 36
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः । प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरंगः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटम्। पितुरागंत पित्र्यम्। आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिव वाहिनीं रामसेनाम्। `ध्वजिनी वाहिनी सेना` इत्यमरः (अ.को.2|8|78)। भागीरथीमुत्तरंगः शोणः शोणाख्यो नद इव। प्रत्यग्रहीदभियुक्तवान् ॥

Verse 37
पत्तिः पदातिं रथिनं रथेगशस्तुरंगसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): पत्तिरिति॥ पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत्। पदा पादाभ्यामततीति पदातिः । `पादस्य पद्-` (पा.6।3।52)इत्यादिना पदादेशः। `पदातिपत्तिपदगपादातिकपदाजयः` इत्यमरः (अ.को.2|8|66)। रथेशो रथिको रथिनं रथारोहमभ्यपतत्। तुरंगसाद्यश्वारोहस्तुरगाधिरूढमश्वारोहमभ्यपतत्। `रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः` इत्यमरः (अ.को.2|8|60)। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत्। इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः। `द्वन्द्वं कलहयुग्मयोः` इत्यमरः (अ.को.3|3|223) ॥

Verse 38
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् । बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नदत्स्विति॥ तूर्येषु नदत्सु सत्सु, अविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोञ्चारयामासुः। श्रोतुमशक्यत्वाद्वाचो नाब्रुवन्नित्यर्थः। किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योर्जितं प्रख्यातं नाम शशंसुरूचुः ॥

Verse 39
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): उत्थापित इति॥ संयति संग्रामेऽश्वैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः सान्द्रीकृतो घनीकृतः। `वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे;वेणौ गणे कुले` इति केशवः। कुञ्जरकर्णानां तालैस्तानैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या। अंशुकमिवेत्यर्थः। `स्याज्जटांशुकयोर्नेत्रम्` इति, `क्रमोऽङ्घ्रौ परिपाट्यां च` इति च केशवः। सूर्यमुपरुरोधाच्छादयामास ॥

Verse 40
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि । बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मत्स्येति॥ वायुवशाद्विदीर्णैर्विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून् पिबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव। बभुर्भान्ति स्म ॥