विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥
Metre: अनुष्टुप्
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥
Metre: अनुष्टुप्
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥
Metre: अनुष्टुप्
ससैन्यश्चान्वगाद्रामं दर्शतानाश्रमालयैः । तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥
Metre: अनुष्टुप्
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥
Metre: अनुष्टुप्
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥
Metre: अनुष्टुप्
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥
Metre: अनुष्टुप्
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥
Metre: अनुष्टुप्
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥
Metre: अनुष्टुप्
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥
Metre: अनुष्टुप्