रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 104 verses
Verse 11
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् । रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विप्रोषितेति॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम्। अस्तमितो मृत ईश्वरो राजा यस्या तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। `आमिषं भोग्यवस्तुनि`इति केशवः ॥

Verse 12
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानाथाः प्रकृतयोऽमात्याः। `प्रकृतिः सहजे योनावमात्ये परमात्मनि` इति विश्वः। मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः। मौलैराप्तैः सचिवैः। आनाययामासुराममयां चक्रुः ॥

Verse 13
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): श्रुत्वेति॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥

Verse 14
ससैन्यश्चान्वगाद्रामं दर्शतानाश्रमालयैः । तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ससैन्य इति॥ ससैन्यो भरतो राममन्वगाञ्च। किं कुर्वन्? आश्रमालयैर्वनवासिभिर्दर्शितान् `एते रामनिवासाः` इति कथितान् ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्न्रुदश्रू रुदन् ॥

Verse 15
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः । लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): चित्रेति॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः। कथितपितृमरणः सन्नित्यर्थः। अनुच्छिष्टाऽननुभूतशिष्टा संपद्गुणोत्कर्षो यस्याः सा। `संपद्भूतौ गुणोत्कर्षे`इति केशवः। तया लक्ष्म्या करणेन निमन्त्रयांचक्रे आहूतवान् ॥

Verse 16
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स हीति॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने। `परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्` इत्यमरः (अ.को.2|7|60)। भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥

Verse 17
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे याचितवान् ॥

Verse 18
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्‌यं न्यासमिवाभुनक् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव। किंतु नन्दिग्रामगतः सन्। तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव। अभुनगपालयत्। न तूपभुक्तवानित्यर्थः। अन्यथा `भुजोऽनवने` (पा.1।3।63) इत्यात्मनेपदप्रसङ्गात्। भुजेर्लङ् ॥

Verse 19
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दृढेति॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म। अकरोदिव। इत्युत्प्रेक्षा। `दृढभक्तिः`इत्यत्र `दृढ`शब्दस्य `स्त्रियाः पुंवत्-` (पा.6।3।34)इत्यादिना पुंवद्भावो दुर्घटः। `अप्रियादिषु`इति निषेधात्। `भक्ति`शब्दस्य प्रियादिषु पाठात्। अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम्। वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो `दृढभक्ति`शब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वाद्दृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम्। भोजराजस्तु-`कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः। दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य`इत्याह ॥

Verse 20
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राम इति॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वञ्जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥

Showing 11 to 20 of 104 verses