रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 79 verses
Verse 11
मातंगनक्रैः सहसोत्पतद्भिन्नान्द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मातंगेति॥ सहसोत्पतद्भिर्मातंगनक्रैः मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान् पश्य। ये फेनाः एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥

Verse 12
वेलानिलाय प्रसृता भुजंगा वहोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वेलेति॥ वैलानिलाय। वेलानिलं पातुमित्यर्थः। `क्रियार्थोपपद-` (पा.2।3।14)इत्यादिना चतुर्थी। प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः। `ट्वितोऽथुच्` (पा.3।3।89) इत्यथुच्प्रत्ययः। तस्मान्निर्विशेषा दुर्ग्रहमेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥

Verse 13
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ तवाधरस्पर्धिषु। अधरसदृशेष्वित्यर्थः। विद्रुमेषु प्रबालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं कथंचित्क्लेशादपक्रामति। विसम्ब्यापसरतीत्यर्थः ॥

Verse 14
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन । आभाति भूयिष्ठमयं समुद्रः प्रमध्यमानो गिरिणेव भूयः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रवृत्तेति॥ पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवान्, तेन आवर्तवेगात्। `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः (अ.को.1|10|6)। भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥

Verse 15
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दूरादिति॥ अयश्चक्रनिभस्य लवणाम्बुराशेर्दूरात्तन्व्यणुत्वेनावभासमाना तमालतालीवनराजिभिर्नीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखामालिन्यरेखेव। आभाति। `मालिन्यरेखां तु कलङ्कमाहुः` इति दण्डी ॥

Verse 16
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि! । मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वेलेति॥ हे आयताक्षि!`वेला स्यात्तीरनीरयोः` इति विश्वः। वेलानिलः केतकरेणुभिस्त आननं संभावयति। किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्दतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम्। कर्मणि षष्ठी। कालहानिमसहमानं वेत्तीव वेत्ति किम्? नो चेत्कथं संभावयेदित्यर्थः ॥

Verse 17
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): एत इति॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरावर्जिता आनमिता पूगमाला यस्मिंस्तत् पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः॥

Verse 18
कुरुष्व तावत्करभोरु! पश्चान्मार्गे मृगप्रेक्षिणि! दृष्टिपातम् । एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कुरुष्वेति॥ `मणिबन्धादाकनिष्ठं करस्य करभो बहिः` इत्यमरः। करभ इवोरूयस्याः सा करभोरूः। `ऊरूत्तरपदादौपम्ये` (पा.4।1।69)इत्यङ्। तस्याः संबुद्धिर्हे करभोरू। मृगवत्प्रेक्षत इति विग्रहः। हे मृगप्रेक्षिणि! तावत्पश्चान्मार्गे लङ्घिताध्वनि दृषअटिपातं कुरुष्व। एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव। `विदूर`शब्दाद्विशेष्यनिघ्नाञ्च्विः ॥

Verse 19
क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिञ्च । यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): क्वचिदिति॥ हे देवि! विमानं पुष्पकं मे मनसोऽभिलाषो यथआविधस्तथा प्रवर्तते पशअय। क्वचित् सुराणां पथा संचरते। क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते। `समस्तृतीयायुक्तात्` (पा.1।3।54)इति संपूर्वाञ्चरतेरात्मनेपदम् ॥

Verse 20
असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिमार्गैर्गच्छतीति त्रिमार्गगा गङ्गा। `तद्धितार्थ-` (पा.2।1।51)इत्यादिनोत्तरपदसमासः। तस्या वीचीनां विमर्देन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति। अनेन सुरपथसंचारो दर्शितः ॥

Showing 11 to 20 of 79 verses