रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 79 verses
Verse 1
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रस्थानानन्तरम्। जानातीति ज्ञः। `इगुपध-` (पा.3।1।135) इत्यादिना कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम्। आकाशमित्यर्थः। `वियद्विष्णुपदम्` इत्यमरः (अ.को.1|2|2)। `शब्दगुणमाकाशम्`इति तार्किकाः। विमानेन पुष्पकेण विगाहमानः सन् रत्नाकरं वीक्ष्य मिथो रहसि। `मिथोऽन्योन्यं रहस्यपि` इत्यमरः (अ.को.3|3|271)। जायां पत्नीं सीतामिति वक्षअयमाणप्रकारेणोवाच। रामस्य `हरि`रित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। `मिथो` ग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥

Verse 2
वैदेहि! पश्याऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वैदेहीति॥ हे वैदेहि सीते! आ मलयान्मलयपर्यन्तम्। `पञ्चम्यपाङ्परिभिः` (पा.2।3।10) इति पञ्चमी। पदद्वयं चैतत्। मत्सेतुना विभक्तं द्विधा कृतम्। अत्यायतसेतुनेत्यर्थः। हर्षाधिक्याञ्च मद्ग्रहणम्। फेनिलं फेनवन्तम्। `फेनादिलञअच` (पा.5।2।99)इतीलच्प्रत्ययः। क्षिप्रकारी चायमिति भावः। अम्बुराशिम्। छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव। पश्य। मम महानयं प्रयासस्त्वदर्थं इति हृदयम्। छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥

Verse 3
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ यियक्षोर्यष्टुमिच्छोः। यजेः सन्नन्तादुप्रत्ययः। गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे ह्रये कपिलेन मुनिना रसातलं पातालं संक्रमित्ते सति। तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल। `किल`इत्यैतिह्ये। अतो न पूज्य इति भावः। यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति भ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥

Verse 4
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गर्भमिति॥ अर्कमरीचयोऽस्मादब्धेः। अपादानात्। गर्भमम्मयं दधति। वृष्ट्यर्थमित्यर्थः। अयमर्थो दशमसर्गे `ताभिर्गर्भः-`(58)इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि। `धने रत्ने वसु स्मृतम्`इति विश्वः। विवृद्धिमश्नुवते प्राप्नुवन्ति। संपद्वानित्यर्थः। असौ। आप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम्। जनेर्ण्यन्तात्कर्मणि लुङ्। सौम्य इति भावः ॥

Verse 5
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तां तामिति॥ तां तामनेकाम्। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सया द्विरुक्तिः। अवस्थामक्षोभाद्यवस्थाम्। विष्णुपक्षे, -सत्त्वाद्यवस्थाम्। प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाञ्चेदृक्तया, इयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥

Verse 6
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नाभीति॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य। नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन्। अमुमधिशेते। अमुष्मिञ्धेत इत्यर्थः। कल्पान्तेऽप्यस्तीति भावः ॥

Verse 7
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पक्षेति॥ पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र `सत्सूद्विष-` (पा.3।2।61) इत्यादिना क्विप्। आत्तगन्धा हृदगर्वाः। अभिभूता इत्यर्थः। `गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः`इति विश्वः। `आत्तगन्धोऽभिभूतः स्यात्` इत्यमरः। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम्। परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्‌मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव। आश्रयन्ते। `अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः` इति कामन्दकः। आर्तबन्धुरिति भावः ॥

Verse 8
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छमम्मः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रसातलादिति॥ आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहननक्रिययाः कृतोद्धरणक्रियायाः। विवाहक्रिया च व्यज्यते। भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव। तदुक्तम्-`उद्धृतासि वराहेण कृष्णेन शतबाहुना`इति ॥

Verse 9
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मुखेति॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। `सिन्धुः समुद्रे नद्यां च` इति विश्वः। स्वयं पिबति पाययतेच । तरंगाधरमिति शेषः। `न पादम्याङ्यमा-` (पा.1।3।79) इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। `गतिबुद्धिप्रत्यवसानार्थ`- (पा.1।4।52) इत्यादिना सिन्धूनां कर्मत्वम्। दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥

Verse 10
ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ससत्त्वमिति॥ अमी तिमयो मत्स्यविशेषाः। तदुक्तम्-`अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः`इति। विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः। आननविवृत्येत्यर्थः। ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति। जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥

Showing 1 to 10 of 79 verses