रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 79 verses
Verse 21
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि! कुतूहलिन्या । आमुञअचतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): करेणेति॥ हे चण्डि कोपने!`चण्डस्त्वत्यन्तकोपनः` इत्यमरः (अ.को.3|1|32)। कुतूहलिन्या विनोदार्थिन्या त्वया कर्त्र्या वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृषअट उद्भइन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव। `चण्डि`इत्यनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥

Verse 22
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अमी इति॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि। `पर्णशालोटजोऽस्त्रियाम्` इत्यमरः (अ.को.2|2|6)। चिरोैज्झितानि। राक्षसभयादित्यर्थः। आश्रममण्डलान्याश्रमविभागान्। यथास्वं स्वमनतिक्रम्य। अध्यासतेऽधितिष्ठन्ति॥

Verse 23
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टां मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वञ्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सैषेति॥ सा पूर्वानुभूता स्थल्येषा। दृशअयत इत्यर्थः। यत्र स्थल्यां त्वां विचिन्वताऽन्विष्यता मया। त्वञअचरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मादिव बद्धमौनं निःशब्दम्। उर्व्यां भ्रष्टमेकं नूपुरं मञ्जीरः। `मञ्जरो नूपुरोऽस्त्रियाम्` इत्यमरः। अदृश्यत दृष्टम्। हेतूत्प्रेक्षा॥

Verse 24
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): त्वमिति॥ हे भूरु भयशीले! `ऊङुतः` (पा.4।1।36)इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। `शाखा वृक्षान्तरे भुजे`इति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(1।49)-`अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः`इति ॥

Verse 25
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मृग्यश्चेति॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृग्ङ्गानाश्चोत्पक्ष्मराजिनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन्। दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥

Verse 26
एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि श्रृङ्गम् । नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): एतदिति॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रृङ्गमेतत्पुरस्तादग्र आविर्भवति। यत्र शृङ्गे धनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेण यदश्रु तञ्च समं युगपद्विसृष्टम्। मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥

Verse 27
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च । स्निग्धाशअच केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विनात्वया मे ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): गन्धश्चेति॥ यस्मिन् शृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च। अर्धोद्गतकेसरं कादम्बं नीपकुसुमं च। स्निग्धामधुराः। शिखइनां बर्हिणाम्। `शिखिनौ वह्निबर्हिणौ` इत्यमरः (अ.को.3|3|114)। केकाशअच। त्वया विना मेऽसह्यानि बुभूवुः। `नपुंसकमनपुंसकेन-` (पा.1।2।69) इति नपुंसकैकशेषः॥

Verse 28
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु! तवोपगूढम् । गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ किंच, हे भीरु! यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथँचिदतिवाहितानि। स्मारकत्वेनोद्दीपकत्वात्ल्केशेन गमितानीत्यर्थः ॥

Verse 29
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आसारेति॥ यत्र श्रृङ्गे विभिन्नकोशैर्विकसितकुङ्भलैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन। `धारासंपात आसारः` इत्यमरः। सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोविडम्ब्यमानाऽनुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः। सादृश्यात्स्मर्यमाणेति शेषः। मामक्षिणोदपीडयत्॥

Verse 30
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उपान्तेति॥ उपान्तवानीरवनोपगूढानि पार्शअववञ्जलवनच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषुतान्यमूनि पम्पासलिलानि पम्पासरोजलानि दूरादवतीर्णा मे दृष्टिरत एव खेदात्पिबतीव। न विहातुमुत्सहत इत्यर्थथः ॥