रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 87 verses
Verse 1
भर्तुऋ प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने । अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ ॥
सञ्जीविनीटीका (मल्लिनाथः): भर्तुरिति॥ अथोपवनाधिष्ठानानन्तरं दाशरथी रामलक्ष्मणौ। उपघअनतरोराश्रयवृक्षस्य। `उपघ्न आश्रये` (पा.3।3।85) इति निपातः। तस्य छेदाद्द्रतत्यौ लते इव। `वल्ली तु व्रततिर्लता` इत्यमरः (अ.को.2|4|9)। भर्तुर्दशरथस्य प्रणाशाच्छोचनीयं दशान्तरमवस्थान्तरम्। ~अवस्थायां वस्त्रान्ते स्याद्दशापि` इति विश्वः। प्रपन्ने प्राप्ते जनन्यौ कौसल्यासुमित्रे तत्र साकेतोपवने समं युगपदपश्यताम्। दृशेः कर्तरि लङ् ॥

Verse 2
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ । विस्पष्टमस्नान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उभाविति॥ यथाक्रमं स्वस्वमातृपूर्वकं प्रणतौ नमस्कृतवन्तौ हतारी हतशत्रुकौ विक्रमशोभिनौ तावुभौ रामलक्ष्मणौ। उभाभ्यां मातृभ्यामस्नैरश्रुभिरन्थतया हेतुना। `अस्रमश्रु च शोणितम्` इति यादवः। विस्पष्टं न दृष्टौ किंतु सुतस्पर्शेन यत् सुखं तस्योपलम्भादनुभवाज्ज्ञातौ ॥

Verse 3
आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद । गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आनन्दज इति॥ तयोर्मात्रोरानन्दजः शिशिरो बाष्पः शोकजमशीतमुष्णमश्रु। उष्णतप्तं ग्रीष्मतप्तं गङ्गासरय्वोर्जलं कर्म अवतीर्णो हिमाद्रेर्निस्यन्दो निर्झर इव। बिभेद। आनन्देन शोकस्तिरस्कृत इत्यर्थः ॥

Verse 4
ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ । अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ते इति॥ ते मातरौ पुत्रयोरङ्गे शरीरे नैर्ऋतशस्त्राणां राक्षसशस्त्राणां मार्गान्व्रणानार्द्रान्सरसानिव सदयं स्पृशन्त्यौ क्षत्रकुलाङ्गनानामीप्सितमिष्टमपि वीरसूर्वीरमातेति शब्दं नाकामयेताम्। वीरप्रसवो दुःखहेतुरिति भावः ॥

Verse 5
क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): क्लेशावहेति॥ आवहतीत्यावहा। भर्तुः क्लेशावहा क्सेशकारिणी। अत एव, अलक्षणाऽहं सीतेति स्वं नामोदीरयन्ती स्वर्गः प्रतिष्ठाऽऽस्पदं यस्य तस्य स्वर्गस्थितस्य गुरोः श्वशुरस्य महिष्यौ श्वश्र्वौ वधूः स्रुषा। `वधूः स्नुषा वधूर्जाया` इत्यमरः। अभक्तिभेदेन ववन्दे। `स्वर्गप्रतिष्ठस्य` इत्यनेन श्वश्रूवैधव्यदर्शनदुःखं सूचितम् ॥

Verse 6
उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): उत्तिष्ठेति॥ `ननु वत्से! उत्तिष्ठ। असौ सानुजो भर्ता तवैव शुचिना वृत्तेन महत्कृच्छ्रं दुःखं तीर्णस्तीर्णवान्` इति प्रियार्हां तां वधूं प्रियमप्यमिथ्या सत्यं ते श्वश्र्वावूचतुः। उभयं दुर्वचमिति भावः ॥

Verse 7
अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ जनन्योरानन्दजलैरानन्दबाष्पैः प्रारब्धं प्रक्रान्तं रघुवंशकेतो रामस्याभिषेकममात्यवृद्धास्तीर्थेभ्यो गङ्गाप्रमुखेभ्य आहृतैरानीतैः काञ्चनकुम्भतोयैर्निर्वर्तयामासुर्निष्पादयामासुः ॥

Verse 8
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि । तस्थापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सरिदिति॥ रक्षः कपीन्द्रैः सरितो गङ्गाद्याः समुद्रान्पूर्वादीन्सरसीर्मानसादीश्च गत्वा। उपपादितान्युपनीतानि जलानि जिष्णोर्जयशीलस्य। `ग्लाजिस्थश्च ग्स्नुः` (पा.3।2।139)इति ग्स्नुप्रत्ययः। तस्य रामस्य मूर्ध्नि। विन्ध्यस्य विन्ध्यस्य विन्ध्याद्रेर्मूर्ध्नि मेघप्रभवा आप इव। उपतन्॥

Verse 9
तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव । राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तपस्वीति॥ यो रामस्तपस्विवेषक्रिययापि तपस्विवेषरचनयापि सुतरामत्यन्तं प्रेक्षणीयस्तावद्दर्शनीय एव बभूव। तस्य राजेन्द्रनेपथ्यविधानेन राजवेषरचनया या शोभा उदिता सा पुनरुक्तं नाम दोषो यस्याः सा पुनरुक्तदोषा द्विगुणासीत् ॥

Verse 10
स मौलरक्षोहरिभिः सैसन्यस्तूर्यस्वनानन्दितपौरवर्गः । विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामः ससैन्यस्तूर्यस्वनैरानन्दितपौरवर्गः सन्। मूले भवा मौला मन्त्रिवृद्धास्तै रक्षोभिर्हरिभिश्च सह सौधेभ्य उद्गतलाजवर्षामुत्तोरणामन्वयराजधानीमयोध्यां विवेश प्रविष्टवान् ॥

Showing 1 to 10 of 87 verses