सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥
Metre: अनुष्टुप्
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् । रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥
Metre: अनुष्टुप्
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः । रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥
Metre: अनुष्टुप्
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः । निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥
Metre: अनुष्टुप्
एको दाशरथिः कामं यातुधानाः सहस्रशः । ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥
Metre: अनुष्टुप्
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥
Metre: अनुष्टुप्
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः । क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥
Metre: अनुष्टुप्
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः । आयुर्देहातिगैः पीतं रुधइरं तु पतत्रिभिः ॥
Metre: अनुष्टुप्
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थइतं ददृशेऽन्यञ्च कबन्धेभ्यो न किंचन ॥
Metre: अनुष्टुप्
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् । अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥
Metre: अनुष्टुप्