रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 104 verses
Verse 61
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दृष्टेति॥ लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी। विषवल्लीभिः परीता परिवृता महौषधिः संजीविनीलतेव। दृष्टा ॥

Verse 62
तस्यै भर्तुरभिज्ञानमङ्गुलीयं दददौ कपिः ॥ प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ कपिर्हनुमान् भर्तू रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मकाम्। `अङ्गुलीयकमूर्मिका` इत्यमरः (अ.को.2|6|108)। `जिह्वामूलाङ्गुलेश्छः` (पा.4।3।62) इति छप्रत्ययः। तस्यै जानक्यै ददौ। किंविधमङ्गुलीयम्? अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम्। भर्त्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः ॥

Verse 63
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निर्वाप्येति॥ स कपिः। प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा। अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्। क्षणं सोढोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धनरूपो येन स तथोक्तः सन्। लङ्कां पुरीं दददाह भस्मीचकार ॥

Verse 64
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती । हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यभिज्ञेति॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥

Verse 65
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः । अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य। स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥

Verse 66
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): श्रुत्वेति॥ प्रियाया उदन्तं वार्ताम्। `उदन्तः साधुवार्तयोः`इति विश्वः। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेषस्तं परिखालघुं दुर्गवेष्टनवत्सुतरं मेने ॥

Verse 67
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रूतः । न केवलं भुवः पृष्ठे व्योम्नि संबाधवार्तिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोऽन्वितः सन् स रामोऽरिनाशाय प्रतस्थे चचाल ॥

Verse 68
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निविष्टमिति॥ उदधेः कूले निविष्टं तं रामम्। विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः। राक्षसलक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रेरित इव। प्रपेदे प्राप्तः ॥

Verse 69
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ राघवस्तस्मै विभीषिणाय। `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` (पा.1।4।40)इति संप्रदानत्वाञ्चतुर्थीं। निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान्। तथा हि-कालेऽवसरे समारब्धाः प्रकान्ता नीतयः फलं बध्नन्ति गृह्णन्ति। जनयन्तीत्यर्थः। खलु॥

Verse 70
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिँल्लवणाब्धौ प्लृवगैः प्रयोज्यैः। शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात् पातालादुन्मग्नमुत्थितं शेषमिव स्थितम्। सेतुं बन्धयामास ॥

Showing 61 to 70 of 104 verses