दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥
Metre: अनुष्टुप्
तस्यै भर्तुरभिज्ञानमङ्गुलीयं दददौ कपिः ॥ प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥
Metre: अनुष्टुप्
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः । स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥
Metre: अनुष्टुप्
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती । हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥
Metre: अनुष्टुप्
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः । अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ॥
Metre: अनुष्टुप्
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥
Metre: अनुष्टुप्
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रूतः । न केवलं भुवः पृष्ठे व्योम्नि संबाधवार्तिभिः ॥
Metre: अनुष्टुप्
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः । स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥
Metre: अनुष्टुप्
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः । काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥
Metre: अनुष्टुप्
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥
Metre: अनुष्टुप्