रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 90 of 104 verses
Verse 81
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अकाल इति॥ प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः। यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ॥

Verse 82
इतरण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतराणीति॥ इतराणि रक्षांस्यपि वानरकोटिषु। समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव। पेतुः। निपत्य मृतानीत्यर्थः ॥

Verse 83
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् । अरावणमरामं वा जगदद्येति निश्चितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निर्ययाविति॥ अथ पौलस्त्यो रावणः। अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेत्। इति निश्चितो निश्चितवान्, कर्तरि क्तः। विजयमरणयोरन्यतरनिश्चयवान् पुनर्युद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥

Verse 84
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् । हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राममिति॥ पादाभ्यामततीति पदातिः। तं पादचारिणं रामम्। वरूथो रथगुप्तिः। `रथगुप्तिर्वरूथो ना` इत्यमरः (अ.को.2|8|57)। अत्र वरूथेन रथो लक्ष्यते। वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः। युगं वहन्तीति युग्या रथाश्वाः। `तद्वहति रथयुगप्रासङ्म्` (पा.3।4।7।6)इति यत्प्रत्ययः। हरियुग्यं कपिलवर्णाश्वम्। `शुकाहिकपिमेकेषु हरिर्ना कपिले त्रिषु` इत्यमरः (अ.को.2|8|57)। रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥

Verse 85
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः । देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम्। मार्गंवशादिति भावः। जेतैव जैत्रो जयनशीलः, तं जैत्रम्। `जेतृ`शब्दात्तृन्नन्तात्`प्रज्ञादिभ्यश्च` (पा.5।4।38)इति स्वार्थेऽण्प्रत्ययः। तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः सन्, अध्यास्ताधिष्ठितवान्। आसेर्लङअ ॥

Verse 86
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् । यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मातलिरिति॥ मातलिरिन्द्रसारथिर्माहेन्द्रम्। तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म। `पुंसि संज्ञायां घः प्रायेण` (पा.3।3।118) इति घः। तम्। तस्य रामस्यामुमोैचासञ्जयामास। यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैब्दं नपुंसकत्वं निरर्थकत्वं तदापुः ॥

Verse 87
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अन्योन्येति॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव। प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥

Verse 88
भुजमूर्घोरुबाहुल्यादेकोऽपि धनदानुजः । ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भुजेति॥ यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः। यथापूर्वो न भवतीत्ययथापूर्वः। निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्‌थः। अत एवैकोऽपि सन् घनदानुजो रावणः। भुजाश्च मूर्धानश्चोरवः पादाश्च भूजमूर्धोरु। प्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः। तस्य बाहुल्याद्बहुलत्वाद्धेतोः। तद्बहहुत्वे यादवः-`दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे`इति। मातृवंशे मातृसंबन्धिनि वर्गे स्थइत इव ददृशे दृष्टो हि। `वंशो वेणौ कुले वर्गे`इति विश्वः। अत्र रावणमातू रक्षोजातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते। अतश्चैकोऽप्यनेकरक्षः परिवृत इवालक्ष्यतेत्यर्थः ॥

Verse 89
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् । रामस्तुलितकैलासमरातिं बह्वमन्यत ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जेतारमिति॥ लोकपालानामिन्द्रादीनां जेतारम्। `कर्तृकर्मणोः कृति`कैलासमुत्क्षिप्तरुद्रादिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाञ्च बह्वमन्यत। साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः। बह्विति क्रियाविशेषणम् ॥

Verse 90
तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि । निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे। `न बहुव्रीहौ` (पा.1।1।29)इति `इतर` शब्दस्य सर्वनामसंज्ञाप्रतिषेधः। भुजे शरं निचखान निखातवान् ॥