रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 79 of 79 verses
Verse 71
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् । अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै- वार्तानुयोगमधुराक्षरया च वाचा ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): श्मश्विति॥ श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिताननेषु विक्रिया विकृतिर्येषां तानत एव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैर्जटिलाञ्जटवतः प्लक्षान्न्यग्रोधानिव स्थितांन्। प्रणमतो मन्त्रिवृद्धांश्च शुभैः कृपार्द्रैर्दृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ॥

Verse 72
दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरःप्रहर्ता । इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): दुर्जात इति॥ अयं मे दुर्जातबन्धुरापद्बन्धुः। `दुर्जातं व्यसनं प्रोक्तम्` इति विश्वः। ऋक्षहरीश्वरः सुग्रीवः। एष समरेषु पुरःप्रहर्ता पौलस्त्यो बिभीषणः। इत्यादृतेनाऽऽदरवता। कर्तरि क्तः। रघूणां नन्दनेन रामेण कथितावुभौ विभीषण-सुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ॥

Verse 73
सौमित्रिणा तदनु संससृजे स चैन- मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग । रूदेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): सौमित्रिणेति॥ तदनु सुग्रीवादिवन्दनानन्तरं स भरतः सौमित्रिणा संससृजे संगतः। `सृज विसर्गे`दैवादिकात्कर्तरि लिट्। नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढमालिलिङ्ग च। किं कुर्वन्? रूढेन्द्रजित्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुरःस्थलेन भुजमध्यं स्वकीयं क्सिश्यन्निव पीडयन्निव। क्लिश्नातिरयं सकर्मकः। `क्लिश्नाति भुवनत्रयम्`इति दर्शनात्। ननु रामायणे-`ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। किमर्थं ज्यैष्ठ्यमवलम्ब्यानार्जवेन श्लोको व्याख्यातः? सत्यम्, -किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम्। `ततो लक्ष्मणमासाद्य-`इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः। अभिवादनं तु वैदेह्या एव। अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ॥

Verse 74
रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): रामेति॥ तदानीं हरिचमूपतयो रामाज्ञया मनुष्यवपुः कृत्वा गजोन्द्रानारुरुहुः। बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥

Verse 75
सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः । मायाविकल्परचितैरपि ये तदीयै- र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): सानुप्लव इति॥ सानुप्लवः सानुगः। अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः इ` इति यादवः। क्षणदाचराणां प्रभुर्विभीषणोऽपि। प्रभवत्यस्मादितिप्रभवो जनकः। दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तः सन्। रथान्भेजे। तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिर्मितैरपि तदीयैर्बिभीषणीयैः स्यन्दनै रथैस्तुलितकृत्रिमभक्तिशोभास्तिलिता समीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति। तेऽपि तत्साम्यं न लभन्त इत्यर्थः। कृत्रिमेत्यत्र `ड्वितः किः` (पा.3।3।88) इति क्विप्रत्ययः। `क्त्रेर्मम्नित्यम्` (पा.4।4।20)इति मबागमः॥

Verse 76
भूयस्ततो रघुपतिर्विलसत्पताक- मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य- स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): भूय इति॥ ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन्। विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेनदृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम्। `सायंचिरंप्राह्णे` (पा.4।323)इत्यादिना `दोषा`शब्दादव्ययाट्ट्युप्रत्ययः। तरलविद्युञ्चञ्चलतडिदभ्रवृन्दमिव। अध्यास्ताधिष्ठितवान् ॥

Verse 77
तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचमभ्रघनादिवेन्दोः । रामेण मैथिलसुतां दशकण्ठकृच्छ्रा- त्प्रत्युद्धतां धृतिमतीं भरतो ववन्दे ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र विमाने जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव। वर्षात्ययेन शरदागमेनाभ्रघनात् मेघसंघातादिन्दो रुचं चन्द्रिकामिव। रामेण दशकण्ठ एव कृच्छ्रं संकटं तस्मात् प्रत्युद्धृतां धृतिमतीं संतोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ॥

Verse 78
लङ्केश्वरप्रणतिभङ्गदृढव्रतं त- द्वन्द्यं युगं चरणयोर्जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो- रन्योन्यपावनमभूदुभयं समेत्य ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): लङ्केश्वरप्रणतीति॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्द्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वाऽन्योन्यस्य पावनं शोधकमभूत् ॥

Verse 79
क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपकार्यमार्यः साकेतोपवनमुदारमध्युवास ॥
Metre: प्रहर्षिणी
सञ्जीविनीटीका (मल्लिनाथः): क्रोशेति॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण। क्रोशोऽध्वपरिमाणविशेषः। क्रोशार्धं क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत् साकेतस्यायोध्याया उपवनमध्युवासाधितष्ठौ। `साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा` इति यादवः ॥

Showing 71 to 79 of 79 verses