रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 76 verses
Verse 31
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): जनस्येति॥ तावर्थि-दातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः। `साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा` इति यादवः। जनस्याभिनन्द्यसत्त्वौ स्तुत्यव्यवसायावभूताम्। `द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु` इत्यमरः। कौ द्वौ? गुरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी। अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः। `प्रे दाज्ञः`। (पा.3।2।6) इति कप्रत्ययः। नृपश्च ॥

Verse 32
अथोष्ट्रवामीशतवाहितार्थे प्रजेश्वरं प्रीतमना महर्षिः । स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रीतमना महर्षिः कौत्सः संप्रस्थितः प्रस्थास्यमानः सन्। `आशंसायां भूतवञ्च` (पा.3।3।132) इति भविष्यदर्थे क्तः। उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रमित्यर्थः। प्रजेश्वरं रघुं करेण स्पृशन्, वाचमुवाच ॥

Verse 33
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): किमिति॥ वृत्ते स्थितस्य। `न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा। सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्॥` इति कामन्दकः। तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि। `सत्सूद्विषद्रह-` (पा.3।2।61) इत्यादिना क्विप्। अत्र कामप्रसवने किं चित्रम्? न चित्रमित्यर्थः। किंतु तव प्रभावो महिमा त्वचिन्तनीयः। येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा। दुहेर्द्विकर्मकत्वादप्रधाने कर्मणि क्तः। `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥` इति स्मरणात् ॥

Verse 34
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आशास्यमिति॥ सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत् पुत्रातिरिक्तमाशास्यमाशीः साध्यमाशंसनीयं वा पुनरुक्तभूतम्। सर्वं सिद्धमित्यर्थः। किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम्। त्वया तुल्यगुणमित्यर्थः। पुत्रं लभस्व प्राप्नुहि ॥

Verse 35
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ अग्रजन्मा ब्राह्मणः। `अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः` इति विश्वः। इत्थं राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप। राजाऽपि। जीवलोको जीवसमूहः। `जीवः प्राणिनि गीष्पतौ` इति विश्वः। अर्गादालोकं प्रकाशमिव। `चैतन्यम्` इति पाठे ज्ञानम्। तस्मादृषेराशु सुतं लेभे प्राप ॥

Verse 36
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ब्राह्म इति॥ तस्य रघोर्देवी महिषी ब्राह्मे। `तस्येदम्` (पा.4।3।120)इत्यण्। ब्रह्मदेवताकेऽभिजिन्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम्। `ईषदसमाप्तौ-` (पा.5।6।67) इत्यादिना कल्पप्प्रत्ययः। कुमारं पुत्रं सुषुवे। `कुमारो बालके स्कन्दे` इति विश्वः। अतो ब्राह्ममुनहूर्तोत्पन्नत्वात् पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमज मजनामकं चकार। `अजो हरौ हरे कामे विधौ छागे रघोः सुते` इति विश्वः ॥

Verse 37
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रूपमिति॥ ओजस्वि तेजस्वि बलिष्ठं वा। `ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च` इति विश्वः। रूपं वपुः। `अथ रूपं नपुंसकम्। स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः।` इति विश्वः। तदेव पैतृकमेव । वीर्यं शौर्यं तदेव। नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव। तादृशमेवेत्यर्थः। कुमारो बालकः। प्रवर्तित उत्पादितो दीपः प्रदीपात् स्वोत्पादकदीपादिव। स्वात्स्वकीयात्। `पूर्वादिभ्यो नवभ्यो वा` (पा.7।1।16) इति स्माद्भावो वैकल्पिकः। कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्। सर्वात्मनातादृश एवाभूदित्यर्थः ॥

Verse 38
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीः साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उपात्तेति॥ गुरुभ्यो विधिवद्यथाशास्त्त्रमुपात्तविद्यं लब्धविद्यम्। यौवनस्योद्भेदादाविर्भावाद्धेतोर्विशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषापि श्रीः। धीरा स्थिरोन्नतचित्ता। `स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम्` इति भूपालः। कन्या पितुरिव। गुरोरनुज्ञामाचकाङ्क्षेयेष। यौवराज्यार्होऽभूदित्यर्थः। `अनुज्ञा`शब्दात्पितृपारतन्त्त्र्यमुपमासामर्थ्यात्पाणिग्रहणयोग्यता च ध्वन्यते ॥

Verse 39
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुकेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः। क्रियामात्रयोगेऽपि चतुर्थी ॥

Verse 40
तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ असौ रघुस्तं भोजं श्लाघ्यसंबन्धमनूचानत्वादिगुणयोगात्स्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धा विदर्भाधिपस्य धानी। `करणाधिकरणयोश्च` (पा.3।3।117) इत्यधिकरणे ल्युट्प्रत्ययः। राज्ञां धानीति विग्रहः॥