रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 88 verses
Verse 31
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाञ्चकार सः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मर्विति॥ स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि। `समानौ मरुधान्वानौ` इत्यमरः (अ.को.1|10|10)। उदम्भांस्युद्भूतजलानि चकार। नाव्या नौभिस्तार्या नदीः। `नाव्यं त्रिलिङ्गं नौतार्ये` इत्यमरः (अ.को.1|10|10)। a`नौवयोधर्मविषमूल-` (पा.4।4।91)इत्यादिना यत्प्रत्ययः। सुप्रतराः सुखेन तार्याश्चकार। विपिनान्यरण्यानि। `अटव्यरण्यं विपिनम्` इत्यमरः (अ.को.1|10|10)। प्रकाशानि निर्वृक्षाणि चकार। शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः॥

Verse 32
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ महतीं सेनां पूर्वसागरगामिनीं कर्षन् स रघुः। हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन्। सापि पूर्वसागरगामिनी। भगीरथ इव। बभौ। भगीरथो नाम कश्चित्कपिलदग्धानां सागराणां नप्ता तत्पावनाय हरकिरीटाद्गङ्गा प्रवर्तयिता राजा। यत्संबन्धाद्गङ्गा च भागीरथीति गीयते ॥

Verse 33
त्याजितैः फलमुत्खातैर्भग्नैशअच बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्याजितैरिति॥ `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः` इति केशवः। फलं लाभम्। वृक्षपक्षे, -प्रसवं च। त्याजितैः। त्यजेर्ण्यन्ताद्द्वकर्मकादप्रधाने कर्मणि क्तः। उत्खातैः स्वपदाञ्च्यावितैः। अन्यत्र, -उत्पाटितैः। बहुधा भग्नै रणे जितैः। अन्यत्र, -छिन्नेः। नृपैः। पादपैर्दन्तिनो गजस्येव तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत्। `प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम्` इति यादवः॥

Verse 34
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी । प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पौरस्त्यानिति॥ जयी जयनशीलः। `जिदृक्षिविश्री-` (पा.3।2।147) इत्यादिनेनिप्रत्ययः। स रघुरेवम्। पुरो भवान् पौरस्त्यान्प्राच्यान्। `दक्षिणापश्चात्पुरसस्त्यक्` (पा.4।2।98) इति त्यक्प्रत्ययः। तांस्तान्, सर्वानित्यर्थः। वीप्सायां द्विरुक्तिः। जनपदान्देशानाक्रामन्। तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप॥

Verse 35
अनम्राणां समुद्धर्तस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्यैर्वृत्तिमाश्रित्य वैतसीम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अनम्राणामिति॥ अनम्राणाम्। कर्मणि षष्ठी। समुद्धर्तुरुन्मीलयितुस्तस्माद्रघोः सकाशात्। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानत्वात्पञ्चमी। सिन्धुरयान्नदीवेगादिव सुह्नैः सुह्नदेशीयैः। सुह्नादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते। वैतसीं वेतसः संबन्धिनीं वृत्तिम्। प्रणतिमित्यर्थः। आश्रित्य। आत्मा संरक्षितः। अत्र कौटिल्यः-`बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसं धर्ममातिष्ठेत्`इति ॥

Verse 36
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् । निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वङ्गानिति॥ नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान् वङ्गान्राज्ञस्तरसा बलेन। `तरसी बलरंहसी` इति यादवः। उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान। स्थापितवानित्यर्थः॥

Verse 37
आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आपादेति॥ आपादपद्ममङ्घ्रिपम्दपर्यन्तं प्रणताः। अत एव, उत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः। कलमा इव शालिविशेषा इव। `शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी` इत्यमरः (अ.को.2|9|25)। तेऽप्यापादपद्मं पादपद्ममूलपर्यन्तं प्रणताः। `पादो बुध्ने तुरीयांशशैलप्रत्यन्तपर्वताः`इति विश्वः। उत्खातप्रतिरोपिताश्च। रघुं फलैर्धनैः। अन्यत्र, -सस्यैः। संवर्धयामासुः। `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः। सस्ये` इति केशवः॥

Verse 38
स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादर्शित्प्पथः कलिङ्गाभिमुखो ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा। `करभाम्`इति केचित्पठन्ति। उत्कलै राजभिरादर्शितपथः संदर्शितमर्गः सन् कलिङ्गाभिमुखो ययौ ॥

Verse 39
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य। `महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः।` इति विष्णुपुराणात्। मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम्। यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं निशितमङ्कुशमिव। न्यवेशयन्निक्षिप्तवान्। `त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि। आत्मानं यो न जानाति स स्याद्गम्भीरवेदिता॥` इति राजपुत्रीये। `चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः॥` इति मृगचर्मीये ॥

Verse 40
प्रतिजग्राह कालिङ्गस्तमस्त्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ गजसाधनः सन् कालिङ्गः कलिङ्गानां राजा। `द्व्यञ्मगधकलिङ्ग-` (पा.4।1।170)इत्यादिनाण्प्रत्ययः। अस्त्त्रैरायुधैस्तं रघुम्। पक्षाणां धेद उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव। प्रतिजग्राह प्रत्यभियुक्तवान् ॥