रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 88 verses
Verse 11
पञ्जानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पञ्चानामिति॥ पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः। अत्रोत्प्रेक्षते-तस्मिन् रघौ नाम नवे महीपाले सति सर्वं क्स्तुजातं नवमिवाभवत्। तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ॥

Verse 12
यथा प्रह्लादनाञ्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यथेति॥ यथा चन्दयत्याह्लादयतीति चन्द्र इन्दुः। चदिधातोरौणादिकोरप्रत्ययः। प्रह्लादनादाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत्। यथा च तपतीति तपनः सूर्यः। नन्द्यादित्वाल्ल्युप्रत्ययः। प्रतापात् संतापजननादन्वर्थः। तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत्। यद्यपि `राज` शब्दो राजतेर्दीप्त्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथापि धातूनामनेकार्थत्वाद्रञअजनाद्राजेत्युक्तं कविना ॥

Verse 13
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ विशाले तस्य रघोर्लोचने कामं कर्णान्तयोर्विश्रान्ते कर्णप्रान्तगते। चक्षुष्मत्ता तु। चक्षुःफलं त्वित्यर्थः। सूक्ष्मान् कार्यार्थान्कर्तव्यार्थान् दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्त्रेणैव। शास्त्त्रं दृष्टिर्विवेकिनामिति भावः॥

Verse 14
लब्धप्रशमनस्वस्थमथैनं समुपस्तिता । पार्थिवश्रीर्दितीयेव शरत्पङ्कजलक्षणा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति॥ अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना। श्रियोऽपि विशेषणमेतत्। शरत्। द्वितीया पार्थिवश्री राजलक्ष्मीरिव। समुपस्थिता प्राप्ता। `रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम्। साम्यं लिङ्गिषु दानवृत्तिकरणं त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे॥` इति॥

Verse 15
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः । प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): निर्वृष्टेति॥ निःशेषं वृष्टा निर्वृष्टाः। कर्तरि क्तः। अत एव लघवः, तैर्मेघैर्मुक्तवर्मा त्यक्तमार्गः। अत एव सुदुःसहः। तस्य रघोर्भानोश्च प्रतापः पौरुषमातपश्च। `प्रतापौ पौरुषातपौ` इति यादवः। यचुगपद्दिशो व्यानशे व्यापः ॥

Verse 16
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वार्षिकमिति॥ इन्द्रः। वर्षासु भवं वार्षिकम्, वर्षानिमित्तमित्यर्थः। `वर्षाभ्यष्ठक्` (पा.4।3।18) इति ठक्प्रत्ययः। धनुः संजहार। रघुर्जैत्रं जयशीलम्। `जेतृ`शब्दात्तृन्नन्तात् `प्रज्ञादिभ्यश्च` (पा.5।4।38) इति स्वार्थेऽण्प्रत्ययः। धनुर्दधौ। हि यस्मात् ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधने विषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ। `पर्यायोद्यमविश्रमौ` इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ। द्वयोः पर्यायकरणादक्लेशः इति भावः ॥

Verse 17
पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुण्डरीकेति॥ पुण्डरीकं सिताम्भोजमेवात्तपत्रं यस्य स तथोक्तः। विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामरणि यस्य स तथोक्तः। ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार। तस्य रघोः श्रियं पुनः शोभां तु न प्राप। `शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दश्यते` इति शाश्वतः ॥

Verse 18
प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रसादेति॥ प्रसादेन सुमुखे तस्मिन् रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयोर्विषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा। तुल्यभोगेति यावत्। `रसो गन्धे रसः स्वादे` इति विश्वः। आसीत्॥

Verse 19
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हंसेति॥ हंसानां श्रेणीषु पङ्क्तिषु। तारासु नक्षत्रेषु। कुमुदानि येषु सन्तीति कुमुद्वन्ति। `कुमुद्वान्कुमुदप्राये` इत्यमरः (अ.को.2|1|10)। `कुमुदनडवेतसेभ्यो ड्यतुप्` (पा.4।2।87)। तेषु। कुमुदप्रायेष्वित्यर्थः। वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् ? इत्युत्प्रेक्षा। अन्यथा कथमेषां धवलिमेति भावः॥

Verse 20
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्विति॥ इक्षूणां छायेक्षुच्छायम्। `छाया बाहुल्ये` (पा.2।4।22) इति नपुंसकत्वम्; तत्र निषण्णा इक्षुच्छायनिषादिन्यः। `इक्षुच्छायानिषादिन्यः` इति स्त्त्रीलिङ्गपाठ इक्षोश्छायेति विग्रहः; अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात्। शालीन् गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्त्रियः। `कर्मण्यण्` (पा.3।2।1) । `टिड्ढाणञ-` (पा.4।1।15)इत्यादिना ङीप्। गोप्तू रक्षकस्य तस्य रघोः। गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्घातः कथारम्भो यस्य तम्। कुमारैरपि स्तूयमानमित्यर्थः। यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत यशो जगुर्गायन्ति स्म। अथवा, -कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम्। तत्राप्यभिविधावव्ययीभावः। आकुमारकथमुद्घातो यस्मिन् कर्मणि। गानकियाविशेषणमेतत्। `स्यादभ्यादानमुद्घात आरम्भः` इत्यमरः। `आकुमारकथोद्भूतम्` इति पाठे कुमारस्य सतस्तस्य कथभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ॥

Showing 11 to 20 of 88 verses