रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 70 verses
Verse 11
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): सुरेन्द्रेति॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात् प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या। `चञ्चलं तरलं चैव पारिप्लवपरिप्लवे` इत्यमरः। तया सुदक्षिणया ननन्द। `सुरेन्द्रमात्राश्रित-` इत्यत्र मनुः(5।96)- `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः` इति ॥

Verse 12
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): कुमारेति॥ अथ । कुमारभृत्या बालचिकित्सा। `संज्ञायां समजनिषद-` (पा.3।3।99) इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः। `कृती कृशलः` इत्यमरः (अ.को.2|6|57)। आप्तैर्हितैर्भिषग्भिर्वैद्यैः। `भिषग्वैद्यौ चिकित्सकौ` इत्यमरः (अ.को.2|6|57)। गर्भस्य भर्मणि भरणे। `भरणे पोषणे भर्म` इति हैमः। `भृतिर्भर्म` इति शाश्वतः। मृञो मनिच्प्रत्ययः। `गर्भकर्मणि`इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र, ग्रीष्मावसाने। प्रसवस्य गर्भमोवनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः। `स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने` इत्यमरः (अ.को.3|3|219)। प्रियां भार्याम्। अभ्राण्यस्याः संजातान्यभ्रिता ताम्। `तदस्य संजातं तारकादिभ्य इतच्` (पा.5।2।36)इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्ता प्रतीतो हृष्टः सन्। `दिवः ख्याते हृष्टे प्रतीतः` इत्यमरः (अ.को.2|6|57)। ददर्श दृष्टवान्॥

Verse 13
ग्रहैस्ततः पञ्चभिरुञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): ग्रहैरिति॥ ततः शच्येन्द्राण्या समा। `पुलोमजा शचीन्द्राणी` इत्यमरः (अ.को.1|1|55)। सा सुदक्षिणा समये प्रसूतिकाले सति। दशमे मासीत्यर्थः। `दशमे मासि जायते` इति श्रुतिः। उच्ञ्चसंश्रयैरुञ्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। `शक्तयस्तिस्रः प्रभावोत्साहमन्त्त्रजाः` इत्यमरः (अ.को.1|1|55)। अक्षयमर्थमिव। असूत। `षूङ् प्राणिगर्भविमोचने` इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम्-`अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः॥`(बृ.जा.) इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उञ्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थस्थानानि च नीचानि। तत्रोञ्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुञ्चेषु परमोञ्चा नीचेषु परमनीचा इति जातकश्लोकार्थः। अत्रांशस्त्त्रिंशो भागः। यथाह नारदः-`त्रिंशद्भागात्मकं लग्नम्` इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम्। तदुक्तं लघुजातके-`रविणास्तमयो योगो वियोगस्तूदयो भवेत्` इति। ते च स्वोञ्चस्थाः फलान्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के-`स्वोञ्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विङ्भेऽल्पं शुभं खेचरेन्द्रः। नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति॥` इति। तदिदमाह कविः-`उञ्चसंश्रयैरसूर्यगैः` इति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोञ्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये-`सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः॥` इति। तदिदमाह-पञ्चभिरिति ॥

Verse 14
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): दिश इति॥ तत्क्षणं तस्मिन्क्षणे। `कालाध्वनोरत्यन्तसंयोगे द्वितीया` (पा.2।3।5)दिशः प्रसेदुः प्रसन्ना बभूवुः। मरुतो वाताः सुखा मनोहरा ववुः। अग्निः प्रदक्षिणार्चिः सन् हविराददे स्वीचकार । इत्थँ सर्वं शुभशंसि शुभसूचकं बभूव। तथा हि-तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय। भवतीति शेषः। ततो देवा अपि संतुष्टा इत्यर्थः॥

Verse 15
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अरिष्टेति॥ `अरिष्टं सूतिकागृहम्` इत्यमरः (अ.को.2|2|8)। अरिष्टे सूतिकागृहे शय्यां तल्पं परितः सर्वतः। `अभितः परितः समयानिकषाप्रतियोगेऽपि`(वा.1422) इति द्वितीया। विसारिणा। सुजन्मनः शोभनोत्पत्तेः। `जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः` इत्यमरः (अ.को.1|4|31)। तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः `अर्धरात्रनिशीथौद्वौ` इत्यमरः (अ.को.2|2|8)। आलेख्ये चित्रे समर्पिता इव बभूवुः। `निशीथ`शब्दो दीपानां प्रभाधिक्यसंभावनार्थः॥

Verse 16
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयमासीत्त्रयमेव भूपतेः शशिप्रभ छत्रमुभे च चामरे ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): जनायेति॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम्। `सरूपसमसंमिताः` इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। किं तत्? शशिप्रभमुज्ज्वलं छत्रम्। उभे चामरे च, छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥

Verse 17
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निवातेति॥ निवातो निर्वातप्रदेशः। `निवातावाश्रयावातौ` इत्यमरः (अ.को.3|3|91)। तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः कर्ता इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव आत्माने शरीरे न प्रबभूव स्थातुं न शशाक। अन्तर्न माति स्मेति यावत्। न ह्यल्पाधारेऽधिकं मीयत इति भावः। यद्वा, -हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव। आत्मानं नियन्तुं न शशाक। किंतु बहिर्निर्जगामेत्यर्थः॥

Verse 18
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपसूनुः। सपस्विना पुरोधसा पुरोहितेन। `पुरोधास्तु पुरोहितः` इत्यमरः (अ.को.2|8|5)। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। `खनिः स्त्त्रियामाकरः स्यात्` इत्यमरः (अ.को.2|8|5)। मणिरिव। अधिकं बभौ। वसिष्ठमन्त्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः (2।29)-`प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते` इति ॥

Verse 19
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): सुखश्रवा इति॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिसुखा इत्यर्थः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। `वारस्त्त्री गणिका वेश्या रूपाजीवा` इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त, किंतु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः, तेषां पथ्याऽऽकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः॥

Verse 20
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौराद्यभावात्। संयतो बद्धो न बभूव नास्ति स्म। किं तेनात आह-विसर्जयेदिति॥ सुतजन्म हर्षितस्तोषितः सन्। यं बद्धं विसर्जयेद्विमोचयेत्। किंतु स राजा तदा पितॄणामृणाभिधानाद्बान्धनात् केवलमेकं यथा तथा। स्वयमेव। एक एवेत्यर्थः। `केवलः कृत्स्न एकश्च केवलश्चावधीरितः` इति शाश्वतः। मुमुचे। कर्मकर्तरि लिट्। स्वयमेव मुक्त इत्यर्थः। अस्मिन्नर्थे-`एष वा अनृणो यः पुत्री` इति श्रुतिः प्रमाणम् ॥

Showing 11 to 20 of 70 verses