रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 70 verses
Verse 21
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविञ्चकार नाम्ना रघुमात्मसंभवम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): श्रुतस्येति॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बालकः श्रुतस्य शास्त्त्रस्यान्तं पारं यायात्। तथा युधि परेषां शत्रूणामन्तं पारं च यायात्। यातुं शक्नुयादित्यर्थः। `शकि लिङ् च` (पा.3।3।172)इति शक्यार्थे लिंङ्। इति होतोर्धातोः `अधिवधिलधि गत्यर्थाः` इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्च। आत्मसंभवं पुत्रं नाम्ना रघुं चकार। `लङ्घिवं ह्योर्नलोपश्च`(वा.4798) इत्यप्रत्यये `बलमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते`(उ.सू.29) इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः-`आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते` इति ॥

Verse 22
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): पितुरिति॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। `भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः` इत्यमरः (अ.को.1|3|31)। अनुप्रवेशाद्बालचन्द्रमा इव। दिने दिने प्रतिदिनम्। `नित्यवीप्सयोः` (पा.8।1।4) इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंहितावचनम्-`सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः॥` इति ॥

Verse 23
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): उमेति॥ उमावृषाङ्कौ पार्वती-वृषभध्वजौ शरजन्मना कार्तिकेयेन। `कार्तिकेयो महासेनः शरजन्मा षडाननः` इत्यमरः (अ.को.1|1|48)। यथा ननन्दतुः। शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन। `जयन्तः पाकशासनिः` इत्यमरः (अ.को.1|1|56)। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमान्वृषाङ्काभ्यां शची-पुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्रग्व्याख्याता ॥

Verse 24
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पयचीयत ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): रथाङ्गेति॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानो चक्रवाकौ। `पुमान्स्त्रिया` (पा.1।2।67)इत्येकशेषः। तयोरिव तयोर्दपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। `एके मुख्यान्यकेवलाः` इत्यमरः (अ.को.3|3|16)। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। कर्मकर्तरि लिट्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलामेऽपि नाहीयत, प्रत्युतोपचितमेवाभूदिति भावः ॥

Verse 25
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूञ्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): उवाचेति॥ सोऽर्भकः शिशुः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। धात्र्योपमात्रा। `छात्रीजनन्यामलकीवसुमत्युपमातृषु` इति विश्वः। प्रथममुदितमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च। प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूञ्च। इति यत्तेन पितुर्मुदं ततान ॥

Verse 26
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन्। नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ। रसः स्वादः॥

Verse 27
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अमंस्तेति॥ स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम्। प्रजानां पतिर्ब्रह्मा। गुणाः स्त्त्वादयः। तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती। तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनाऽऽत्मनः सर्गं सृष्टिमिव। स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः। अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे, - गुणा विद्याविनयादयः। `गुणोऽप्रधाने रूपादौ मौर्व्या सूदे वृकोदरे। स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु॥` इति विश्वः। शेषं सुगमम् ॥

Verse 28
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ `चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्॥` (2।34) इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन्। डलयोरभेदः। स रघुः। `प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्` इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः` इति हलायुधः। सवयोभिः स्निग्धैः। `वयस्यः स्निग्धः सवयाः` इत्यमरः (अ.को.2|8|12)। अमात्यपुत्रैरन्वितः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम्। नद्यामुखं द्वारम्। `मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः` इति यादवः। तेन कश्चिन्मकरादिः समुद्रमिव। आविशत् प्रविष्टः। ज्ञातवानित्यर्थः॥

Verse 29
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ `गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भाञ्च द्वादशे विशः॥` (2।36) इति मनुस्मरणात्। अथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः। ते गुरवोऽत्रास्मिन्रघौ अवन्ध्ययत्नाश्च बभूवुः। तथा हि-क्रिया शिक्षा। `क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु` इति यादवः। वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति। `क्रिया हि द्रव्यं विनयति नाद्रव्यम्` इति कौटिल्यः ॥

Verse 30
धियः समग्रैः स गुणैरुदारधीः क्रमाञ्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): धिय इति॥ अत्र कामन्दकः-`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥` इति। `आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः॥` इति च। उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः। चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः। `तद्धितार्थोत्तरपदसमाहारे च` (पा.2।1।41) इत्युत्तरपदसमासः। चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः। `हरित्ककुभि वर्णे च तृणवाजिविशेषयोः` इति विश्वः। चतस्रो दिश इव। क्रमात्ततार। चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥