रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 70 verses
Verse 41
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सत्ताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम्। मूत्रमित्यर्थः। तेन लोचने प्रमृज्य शोधयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा.1336) इति समासः। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम्। भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ॥

Verse 42
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ नरदेवसंभवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितौद्धत्यं रथस्य रश्मिभिः प्रग्रहैः। `किरणप्रग्रहौ रश्मी` इत्यमरः (अ.को.3|3|146)। संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ॥

Verse 43
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): शतैरिति॥ रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः। `हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः` इति विश्वः। वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा। `हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु` इति विश्वः। एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निव। अवोचत् ॥

Verse 44
मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र! सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविथाताय कथं प्रवर्तसे ? ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): मखेति॥ हे देवेन्द्र! मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे। तथाप्यजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय क्रतुविघाताय, क्रियां विहन्तुमित्यर्थः। `तुमर्थाञ्च भाववचनात्` (पा.2।3।15)इति चतुर्थीं। कथं प्रवर्तसे? ॥

Verse 45
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसिच्युतोविधिः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): त्रिलोकेति॥ त्रयाणां लोकानां नाथस्त्त्रिलोकनाथः। `तद्धितार्थ-` (पा.2।1।51) इत्यादिनोत्तरपदसमासः। तेन त्रैलोक्यनियामकेन दिव्यचक्षुषाऽःतीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याखलु। स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत्। विधिरनुष्ठानं च्युतः क्षतः। लोके सत्कर्मकथैवास्तमियादित्यर्थः॥

Verse 46
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ हे मघवन्! तत्तस्मात्कारणात्। महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंगं प्रतिमोक्तुं प्रतिदातुमर्हसि। तथा हि-श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते, असन्मार्गं नावलम्बन्त इत्यर्थः। `मलीमसं तु मलिनं कञ्चरं मलदूषितम्` इत्यमरः॥

Verse 47
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति रघुणा समीरितं प्रगल्भं वचो निशम्याऽऽकर्ण्य। दिवौकसः स्वर्गौकसः। `दिवं स्वर्गेऽन्तरिक्षो च` इति विश्वः। तेषामधिपतिर्देवेन्द्रो रघुप्रभावात् सविस्मयः सन्। रथं निवर्तयामास। उत्तरं प्रतिवक्तुं प्रचक्रमे च ॥

Verse 48
यदात्थ राजन्यकुमार! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ हे राजन्यकुमार क्षत्रियकुमार! `मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्` इत्यमरः (अ.को.2|8|1)। यद्वाक्यमात्थ ब्रवीषि। `ब्रुवः पञ्चानाम्-` (पा.3।4।84) इत्यादिनाहादेशः। तत्तथा सत्यम्;किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम्। ततः किमत आह-भवद्गुरुस्त्वात्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यश इत्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ॥

Verse 49
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): हरिरिति॥ पुरुषेषूत्तम इति सप्तमीसमासः। `न निर्धारणे` (पा.2।2।50)इति षष्ठीसमासनिषेधात्। कर्मधारये तु `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः` इत्युत्तमपुरुष इति स्यात्। यथा ह्ररिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः। यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः। नापरोऽपरः पुमान्न। तथा मां मुनयः शतक्रतुं विदुर्विदन्ति। `विदो लटो वा` (पा.3।4।83) इति झेर्जुसादेशः। नोऽस्माकम्। हरिहरयोर्मम चेत्यर्थः। एष त्रितयोऽपि शब्दो द्वितीयगामी न हि। द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः ॥

Verse 50
अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अत इति। अतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः। अपहारित इति स्वार्थे णिच्। तवात्राश्वे प्रयत्नेनालम्;प्रयत्नो माकारीत्यर्थः। निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया। सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि। निपूर्वाद्धाधातोर्लुङ्। `न माङ्योगे` (पा.6।4।74) इत्यडागमप्रतिषेधः। महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ॥