रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 75 verses
Verse 41
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इति प्रगल्भं पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचोनिशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्त्रः` कुण्ठितास्त्त्रः सन् आत्मनि विषयेऽववज्ञामपमानं शिथिलीचकार। तत्याजेत्यर्थः। अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः। समानेषु हि क्षत्रियाणामभिमानः न सर्वेश्वरं प्रतीति भावः ॥

Verse 42
प्रत्यब्रवीञ्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः । जडीकृतस्त्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः। अत एव वज्रं कुलिशं मुमुक्षन् मोक्तुमिच्चन्। अम्बुकं लोचनम्। दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि` इति हलायुधः। त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः। तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः। वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः। `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्`(वा.1415) इति पाणेः सप्तम्यन्तस्योत्तरनिपातः। स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीञ्च। `बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः` इति महाभारते ॥

Verse 43
संरुद्धचेष्टस्य मृगेन्द्र! कामं हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): संरुद्धेति॥ हे मृगेन्द्र! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचोवाक्यं कामं हास्यं परिहसनीयम्। यद्वचः `स त्वं मदीयेन`(2।45) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि। तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति। हि यतो भवान् प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति। `विदो लटो वा` (पा.3।4।83)इति णलादेशः। अतोऽभिधास्ये वक्ष्यामि। वच इति प्रकृतं कर्म संबध्यते। अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति। अतस्तु मौनमेव भूषणम्। त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि। अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥

Verse 44
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मान्य इति॥ प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः। अलङ्घ्यशासन इत्यर्थः। शासनं च `सिंहत्वमङ्कागतसत्त्ववृत्ति`(2।38) इत्युक्तरूपम्। तर्हि विसृज्य गम्यताम्; नेत्याह-गुरोरपीति। पुरस्तादग्रे नश्यदिदमाहिताग्नेगुरोर्धनमपि गोरूपमनुपेक्षणीयम्। `आहिताग्नेः` इति विशेषणेनानुपेक्षाकारणं हविः साधनत्वं सूचयति॥

Verse 45
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्तयितुं संपादयितुं प्रसीद। दिनावसान उत्सुको `माता ममागमिष्यति` इत्युत्काण्ठतो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ॥

Verse 46
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम्। `देवखातबिले गुहा। गह्वरम्` इत्यमरः। अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन्, निरस्यन्नित्यर्थः। किंचिद्विहस्य। अर्थपतिं नृपं भूयो बभाषे। हासकारणम् `अल्पस्य हेतोर्बहु हातुमिच्छन्`(2।47) इति वक्ष्यमाणं द्रष्टव्यम्॥

Verse 47
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): एकेति॥ एकातपत्रमेकच्छत्रं। जगतः प्रभुत्वं स्वामित्वम्। नवं वयो यौवनम्। इदं कान्तं रम्यं वपुश्च। इत्येवं बहु अल्पस्य हेतोरल्पेन कारणेन अल्पफलायेत्यर्थः। `षष्ठी हेतुप्रयोगे` (पा.2।3।36) इति षष्ठी। हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकायविमर्शे मूढो मूर्खो मे मम प्रतिभासि ॥

Verse 48
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ! पितेव पासि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): भूतेति॥ तव भूतेष्वनुकम्पा कृपा चेत्। `कृपा दयानुकम्पा स्यात्` इत्यमरः (अ.को.1|7|19)। कृपैव वर्तते चेदित्यर्थः। तर्हि त्वदन्ते तव नाशे सति, इयमेका गौः। स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती। भवेत्, जीवेदित्यर्थथः। `स्वस्त्याशीःक्षेमपुण्यादौ` इत्यमरः (अ.को.1|7|19)। हे प्रजानाथ! जीवन् पुनः पितेव प्रजा उपप्लवेभ्यो विपद्भ्यः शश्वत् सदा ।`पुनः सदार्थयोः शश्वत्` इत्यमरः (अ.को.1|7|19)। पासि रक्षसि। स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्त्राणमित्यर्थः॥

Verse 49
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथेति पक्षआन्तरे, अथवा। एकैव धेनुर्यस्य तस्मात्। अयं कोपकारणोपन्यास इति ज्ञेयम्। अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात्। `चण्डस्त्वत्यन्तकोपनः` इत्यमरः (अ.को.3|1|32)। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि इति काकुः। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानात्पञ्चमी। अल्पवित्तस्य धनहानिरतिदुःसहेति भावः। अस्य गुरोर्मन्युः क्रोधः। `मन्युर्दैन्ये क्रतौ क्रुधि` इत्यमरः (अ.को.3|1|32)। घटा इवोधांसि यासां ता घटोध्नीः। `ऊधसोऽनङ्` (पा.5।4।131) इत्यनङादेशः। `बहुव्रीहेरूधसो ङीष्` (पा.4।1।25) इति ङीष्। कोटिशो गाः स्पर्शयता प्रतिपादयता। `विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्` इत्यमरः (अ.को.2|7|31)। भवता विनेतुमपनेतुं शक्यः ॥

Verse 50
तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मात्कारणात् कल्याणपरम्पराणां भोक्तारम्। कर्मणि षष्ठी। ऊर्जो बलमस्यास्तीत्यूर्जस्वलम्। `ज्योत्स्नातमिस्रा-` (पा.5।2।114) इत्यादिना बलच्प्रत्ययान्तो निपातः। आत्मदेहं रक्ष। ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात्। नेत्याह-महीतलेति। ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसंबन्धमात्रेण भिन्नमैन्द्रमिन्द्रसंबन्धि पदं स्थानमाहुः। स्वर्गान्न भिद्यत इत्यर्थः॥