रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 75 verses
Verse 31
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वामेति॥ प्रहर्तुस्तस्य वामेतरो दक्षिणः करः। नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन्। `कङ्कः पक्षिविशेषे स्याद्गुप्ताकारे युधिष्टिरे` इति विश्वः। `कङ्कस्तु कर्कटः` इति यादवः। सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। `कर्तरी पुङ्खे`इति यादवः। सक्ताङ्गुलिः सन्। चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव। अवतस्थे ॥

Verse 32
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्त्रौषधिरुद्धवीर्यः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): बाह्विति॥ बाह्वोः प्रतिष्मम्भेन प्रतिबन्धेन। `प्रतिबन्धः प्रतिष्टम्भः` इत्यमरः (अ.को.3|1|66)। विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगीसर्प इव। `भोगी राजभुजंगयोः` इति शाश्वतः। अभ्यर्णमन्तिकम्। `उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्` इत्यमरः (अ.को.3|1|66)। आगस्कृतमपराधकारिणम्, अस्पृशद्भिः स्वतेजोभिरन्तरदह्यत। `अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि` इति यादवः॥

Verse 33
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम्। `पदास्वैरिबाह्यापक्ष्येषु च` (पा.3।1।119) इति क्यप्। मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम्। सिंह इवोरुसत्त्वो महाबलस्तम्। आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम्। कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन। पुनर्विस्माययन् स्मयमाश्चर्यं प्रापयन्निजगाद। `स्मिङ् ईषद्धसने` इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम्। `विस्मापयन्` इति पाठे पुगागममात्रं वक्यव्यम्। तञ्च `नित्यं स्मयतेः` (पा.6।1।57) इति हेतुभयविवक्षायामेवेति `भीस्म्योर्हेतुभये` (पा.1।3।68) इत्यात्मनेपदे विस्मापयमान इति स्यात्। तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम्। करणविवक्षायां न कश्चिद्दोषः॥

Verse 34
अलं महीपाल! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादणेन्मूलनशक्ति रंहः शिलोञ्चये मूर्च्छति मारुतस्य ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अलमिति॥ हे महीपाल! तव श्रमेणालम्, साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः। अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया। उक्तं च न्यासोद्द्योते-`न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि` इति। `अलं भूषणपर्याप्तिशक्तिवारणवाचकम्` इत्यमरः (अ.को.3|3|267)। इतोऽस्मिन्मयि। सार्वविभक्तिकस्तसिः। प्रयुक्तमप्यस्त्त्रं वृथा स्यात्। तथा हि-पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोञ्चये पर्वते न मूर्च्छति न प्रसरति ॥

Verse 35
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कैलासेति॥ कैलास इव गौरः शुभ्रस्तम्। `चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः` इति शाश्वतः। वृषं वृषभम्, आरुरुक्षोरारोढुमिच्छोः। स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः। अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्त्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि। `पृथिवी सलिलं तेजौ वायुराकाशमेव च । सूर्यां चन्द्रमसौ मोमयाजी चेत्यष्टमूर्तयः ॥` इति यादवः॥

Verse 36
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अमुमिति॥ पुरोऽग्रतोऽग्रतोऽमुं देवदारुं पश्यसि। इति काकुः। असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः। स्कन्दपक्षे, -हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम्। `पयः क्षीरं पयोऽम्बु च` इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः ॥

Verse 37
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्त्रैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कण्डूयमानेनेति॥ कदाचित् कटं कपोलं कण्डूयमानेन कर्षता। `कण्ड्वादिभ्यो यक्` (पा.3।2।61) इति यक। ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता अथाद्रेस्तनया गौरी। असुरास्त्त्रैरालीढं क्षतम्। सेनां नयत्तीति सेनानीः स्कन्दः। `पार्वतीनन्दनः स्कन्दः सेनानीः` इत्यमरः (अ.को.1|1|49)। `सत्सूद्विष-` (पा.3।1।27)इत्यादिना क्विप्। तमिव। एवं देवदारुं शुशोच ॥

Verse 38
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदेति॥ तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्गंसमीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत्। `अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः` इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ॥

Verse 39
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्ता एषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम्। सुरद्विषोराहोः चन्द्रमस इयं चान्द्रमसी सुधेव क्षुधितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता। `नमःस्वस्ति-` (पा.2।3।16) इत्यादिना चतुर्थी ॥

Verse 40
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । शस्त्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्त्रभृतां क्षिणोति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व। भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति। ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्त्रेणेति। यद्रक्ष्यं धनं शस्त्त्रेणायुधेन। `शस्त्त्रमायुधलोहयोः` इत्यमरः। अशक्या रक्षा यस्य तदशक्यरक्षम्; रक्षितुमशक्यमित्यर्थः। तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति। अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥