रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 95 verses
Verse 31
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यादीदध्वरस्येव दक्षिणा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा। `सप्तम्यां जनेर्डः` (पा.3।2।97) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। `दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु` इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-`यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः` इति। `दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्।` `ते दक्षन्ते दक्षिणां प्रतिगृह्य` इति च ॥

Verse 32
कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कलत्रवन्तमिति॥ वसुधाधिपः। अवरोधेऽन्तः पुरवर्गे महति सत्यपि। मनस्विन्या दृढचित्तया। पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थथः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। `कलत्रं श्रोणिभार्ययोः` इत्यमरः (अ.को.3|3|187)। `वसुधाधिप` इत्यनेन वसुधया चेचि गम्यते ॥

Verse 33
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्यामिति॥ स राजा। आत्मानुरूपायां तस्याम्। आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः, तस्मिन् समुत्सुकः। यद्वा, -आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन्। `आत्मा वै पुत्रनामासि` (आ.गृ.1।15) इति श्रुतेः। विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥

Verse 34
संतानार्थाय विधये स्वभुजादवतारिता । तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संतानेति॥ तेन दिलीपेन। संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय। स्वभुजादवतारिताऽवरोपिता जगतो लोकस्य गुर्वी धूर्भारः सचिवेषु निचिक्षिपे निहिता ॥

Verse 35
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथएति॥ अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रोच्छया। `काम्यञ्च` (पा.3।1।9) इति `पुत्र` शब्दात् काम्यच्प्रत्ययः। `अ प्रत्ययात्` (पा.3।3।102) इति पुत्रकाम्यधातोरकारप्रत्ययः। ततष्टाप्, तया। तौ दंपती जायापती। राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः। प्रतयौ पूतौ विधातारं ब्रह्माणमभ्यर्च। `स खलु पुत्रार्थिभिरुपास्यते` इति मान्त्रिकाः। गुरोः कुलगुरोः। वसिष्ठस्याश्रमं जग्मतुः। पुत्रप्राप्त्युपायापेक्षयेति शेषः॥

Verse 36
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। `प्रावृष एण्यः` (पा.4।3।17) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। `इरा भूवाक्सुराप्सु स्यात्` इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। `ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः` इत्ममरः। `अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात्` इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥

Verse 37
मा भूदाश्रमपीडेति परिमेयपुरः सरौ । अनुभावविशेषात्तु सेनापरिवृताविव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मा भूदिति॥ पुनः कथंभूतौ दंपती? आश्रमपीडा मा भून्माऽस्त्विति हेतोः। `माङि लुङ्` (पा.3।3।175) इत्याशीरर्थे लुङ्। `न माङ्योगे` (पा.6।4।74) इत्यडागमनिषेधः। परिमेयपुरःसरौ परिमितपरिचरौ। अनुभावविशेषात्तु तेजोविशेषात् सेनापरिवृताविव स्थोरौ ॥

Verse 38
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेव्यमानाविति॥ पुनः कथंभूतौ? सुखः शीतलत्वात्प्रियः स्पर्शो येषां तैः। शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः। `शालः सर्जतरुः स्मृतः` इति शाश्वतः। उत्किरन्ति विक्षिपन्तीत्युत्किराः। `इगुपध-` (पा.3।1।135) इत्यादिना किरतेः कप्रत्ययः। पुष्परेणूनामुत्किरास्तैराधूता मान्द्यादीषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ॥

Verse 39
मनोभिरामाः श्रृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मनोभिरामा इति॥ रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-`नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ॥` स च तन्त्रीकण्ठजन्मा स्वरविशेषः। `निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥` इत्यमरः (अ.को.2|5|33)। षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-`षड्जं मयूरो वदति` इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। `केका वाणी मयूरस्य` इत्यमरः (अ.को.2|5|33)। ताः केकाः शृण्वन्तौ। इति श्लोकार्थः॥

Verse 40
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। `दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि` इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। `पुमान्स्त्रिया` (पा.1।2।67) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। `स्त्रीपुंसौ मिथुनं द्वन्द्वम्` इत्यमरः (अ.को.2|5|41)। परस्पराक्ष्णां सादृश्यं पश्यन्तौ। `द्वन्द्व`शब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥