रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 95 verses
Verse 21
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जुगोपेति॥ अत्रस्तोऽभीतः सन्। `त्रस्नौ भीरुभीरुकभीलुकाः` इत्यमरः (अ.को.3|1|22)। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। `गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ।` इत्यमरः (अ.को.3|1|22)। `त्रसिगृधिधृषिक्षिपेः क्नुः` (पा.3।2।140) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥

Verse 22
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ज्ञान इति॥ ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-`नान्योपतापि वचनं मौनं व्रतचरिष्णुता` इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-`शक्तानां भूषणं क्षमा` इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (4।236)-`न दत्त्वा परिकीर्तयेत्` इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥

Verse 23
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। `रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी` इत्यमरः (अ.को.1|5|8)। अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। `विस्रसा जरा` इत्यमरः (अ.को.2|6|41)। `षिद्भिदादिभ्योऽङ्` (पा. 3।3।104) इत्यङ्प्रत्ययः। `जराया जरसन्यतरस्याम्` (पा.7।2।101) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा `अनाकृष्टस्य` इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥

Verse 24
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरत्त्तसां केवलं जन्महेतवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। `उपसर्गे च संज्ञायाम्` (पा.3।2।99)इति डप्रत्ययः। `प्रजा स्यात्संततौ जने` इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -`स पिता यस्तु पोषकः` इति ॥

Verse 25
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्थित्या इति॥ दण्डमर्हन्तीति दण्ड्याः। `दण्डादिभ्यो यत्` (पा. 5।1।36) इति यप्रत्ययः। `अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति॥`(मनु.8।128) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। `विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो` इत्यमरः (अ.को.2|7|5)। तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(9।10)-`न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ॥` इति ॥

Verse 26
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दुदोहेति॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह। द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः। `क्रियार्थोपपदस्य-` (पा. 2।3।14) इत्यादेना यज्ञसस्याभ्यां चतुर्थीं। एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः। उक्तं च दण्डनीतौ-`राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम्। प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ॥` इति ॥

Verse 27
न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् `तस्कर` शब्द एवापहृत इत्यर्थः। अथवा, -`अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि` इति न्यायेन शब्दे स्थिता स्फुरिता, न तु स्वरूपतोऽस्तीत्यर्थः ॥

Verse 28
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। `छिन्द्याद्बाहुमपि दुष्टमात्मः` इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥

Verse 29
तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ वेधाः स्रष्टा। `स्रष्टा प्रजापतिर्वेधाः` इत्यमरः (अ.को.1|1|17)। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥

Verse 30
स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। `वेला कूलेऽपि वारिधेः` इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। `स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥` इत्यमरः (अ.को.2|2|3)। परितः खातं परिखा दुर्गवेष्टनम्। `खातं खेयं तु परिखा` इत्यमरः (अ.को.2|2|3) । `अन्येष्वपि दृश्यते` (पा.3।2।101)इत्यत्र `अपि` शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥