रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 75 verses
Verse 21
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः श्रृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रदक्षिणीकृत्येति॥ अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ ह्रस्तौ यस्याः सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च। अस्याः धेन्वा विशालं शृङ्गमध्यम्। अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव। आनर्चार्चयामास, अर्चतेर्भौवादिकाल्लिट्॥

Verse 22
वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वत्सोत्सुकेति॥ सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति होतः, तौ दंपती ननन्दतुः। पूजास्वाकारस्यानन्दहेतुत्वमाह-भक्त्येति। पूज्येष्वनुरागो भक्तिः। तयोपपन्नेषु युक्त्वेषु विषये तद्विधानाम्। तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम्। महतामित्यर्थः। प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि। पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि। अविलम्बितफलसूचकलिङ्गदशनादानन्दो युज्यत इत्यर्थः॥

Verse 23
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्वं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः, उभयोरपीत्यर्थः। `भार्या जायाथ पुं भूम्नि दाराः` इत्यमरः। पादौ निपीड्याभिवन्द्य। सांध्यं संध्यायां विहितं विधिननुष्ठानं च समाप्य। दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलम्। `तृन्` (पा.3।2।135)इति तृन्प्रत्ययः। धेनुमेव पुनर्भेजे सेवितवान्। `दोग्ध्रीम्`इति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ॥

Verse 24
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहीणीसहायः । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन्। उभावपीत्यर्थः। अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप प्रातः सुप्तोत्थितामनूदष्ठिदुत्थितवान्। अत्र `अनु शब्देन धेनुगजव्यापारयोः पौर्वापर्यमुच्यते।` `क्रम`शब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम्। `कर्मप्रवचनीययुक्ते-` (पा.2।3।8)इति द्वितीया ॥

Verse 25
इत्थं व्रतं धारयतः प्रजार्थं समं महिण्या महनीयकीर्तेः । सप्त व्यतीयुस्त्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह। `कृताभिषेका महिषी` इत्यमरः (अ.को.2|6|5)। व्रतं धारयतः। महनीया पूज्या कीर्तिर्यस्य तस्य दीनानामुद्धरणं दैन्दविमोचनम्। तत्रोचितस्य परिचितस्य तस्य नृपस्य। त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ॥

Verse 26
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अन्येद्युरिति॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने। `सद्यः परुत्परारि- (पा.5।3।22)` इत्यादिना निपातनादव्ययम्। `अद्यात्राह्लाय पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेंद्युरादयः ॥` इत्यमरः। मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम्। `भावोऽभिप्राय आशयः` इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। `ज्ञाश्रुस्मृदृशां सनः` (पा.1।3।57)इत्यात्मनेपदे शानच्। प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत्। `शष्पं बालतृणं घासः` इत्यमरः। गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ॥

Verse 27
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोः, अद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात्। `प्रसह्य तु हठार्थकम्` इत्यमरः (अ.को.3|4|10)। चकर्ष। `किल` इत्यलीके ॥

Verse 28
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्ववादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदीयमिति॥ गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम्। तस्या इदं तदीयम्। आक्रन्दितमार्तघोषणम्। आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम्। रश्मिषु प्रग्रहेषु। `किरणप्रग्रहौ रश्मी` इत्यमरः (अ.को.3|3|146)। आदायेव गृहीत्वेव। निवर्तयामास॥

Verse 29
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम्। `क्कसुश्च` (पा.3।2।102)इति क्वसुप्रत्ययः। केसरिणं सिंहम्। सानुमत्तोऽद्रेः। धातोर्गैरिकस्य विकारो धातुमयी। तस्यामधित्यकायामूर्ध्वभूमौ। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमाधित्यका` इत्यमरः। `उपाधिभ्यां त्यकन्नासन्नारूढयोः (पा.5।2।34) इति त्यकन्प्रत्ययः। प्रफुल्लो विकसितस्तम्। `फुल्ल विकसने` इति धातोः पचाद्यच्। `प्रफुल्तम्`इति तकारपाठे ञिफला विशरणे` इति धातोः कर्तरि क्तः। `उत्परस्यातः` (पा.7।4।88)इत्युकारादेशः। लोध्राख्यं द्रुममिव ददर्श॥

Verse 30
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। `शरणं गृहरक्षित्रोः` इत्यमरः (अ.को.3|3|59)। `शरणं रक्षणे गृहे`इति यादवः। शरणे साधुः शरण्यः, `तत्र साधुः` (पा.4।4।98) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। `अभिषङ्गः पराभवे` इत्यमरः (अ.को.3|3|59)। वध्यस्य वधार्हस्य। `दण्डादिभ्यो यत्` (पा.5।1।66) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः` इत्यमरः (अ.को.2|8|88)। शरमुद्धर्तुमैच्छत् ॥