रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 91 to 95 of 95 verses
Verse 91
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। `आङ् मर्यादाभिविध्योः` (पा.2।1।13) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। `अव्ययं विभक्ति-` (पा.2।1।6)इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रीणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। `एर्लिङि` (पा.6।4।67) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः॥

Verse 92
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ देशकालज्ञः देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः, विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन्। अत एव प्रीतिमान् शिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः। `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः (अ.को.3|3|252)। आनतो विनयनम्रः सन्। शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार॥

Verse 93
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान्। `विद्वान्विपश्चिपश्चिद्दोषज्ञः` इत्यमरः (अ.को.3|3|225)। सूनृतवाक् सत्यप्रियवाक्। `प्रियं सत्यं च सूनृतम्` इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति। उदितश्रियं विशांपतिं मनुजेश्वरम्। `द्वौ विशौ वैश्यमनुजौ` इत्यमरः (अ.को.3|3|225)। संवेशाय निद्रायै। `स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि` इत्यमरः (अ.को.1|7|38)। विससर्जाज्ञापयामास ॥

Verse 94
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सत्यामिति॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः। नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया। अस्य राज्ञो वन्यामेव। संविधीयतेऽनयेति संविधाम्। कुशादिशयनसामग्रीम्। `आतश्चोपसर्गे` (पा.3।1।136) इति कप्रत्ययः, `अकर्तरि च कारके संज्ञायाम्` (पा.3।3।19) इति कर्माद्यर्थत्वम्। कल्पयामास संपादयामास ॥

Verse 95
निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥
Metre: प्रहर्षिणी
सञ्जीविनीटीका (मल्लिनाथः): निर्दिष्टामिति॥ स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्टाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। `अधिशीङ्-` (पा.1।4।46) इत्यादिनाधारस्य कर्मत्वम्। कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्टस्य शिष्याणामध्ययनेनापररात्रवेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपररात्राध्ययने मनुः-(4।99) `निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्`। `न चापररात्रमधीत्य पुनः स्वपेत्` इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-`म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्`॥

Showing 91 to 95 of 95 verses