रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 95 verses
Verse 71
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): असह्येति॥ हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। `निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने` इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। `व्रणोऽस्त्रियामीर्ममरुः` इति। `अरुंतुदं तु मर्मस्पृक्` इति चामरः। `विध्वरुषोस्तुदः` (पा.3।2।35) इति खश्प्रत्ययः। `अरुर्द्विषत्-` (पा.6।3।67) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। `आलानं बन्धनस्तम्भे` इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। `निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि`इति पालकाप्ये। `ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्` ॥

Verse 72
तस्मान्मुच्ये यथा तात! संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति॥ हे तात! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि। कर्मणि लट्। तथा संविधातुं कर्तुमर्हसि। हि यस्मात्कारणात्, इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम्। तद्राजत्वाद्बहुष्वणो लुक्। दुरापे दुष्प्राप्येऽर्थे। सिद्धयस्त्वदधीनास्त्वदायत्ताः। इक्ष्वाकूणामिति शेषे षष्ठी। `न लोक-` (पा. 2।3।69) इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥

Verse 73
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रम्। सुप्तमीनो ह्रद इव। तस्थौ॥

Verse 74
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबिन्धकारणमपश्यत्। अथानन्तरमेनं नृपं प्रत्यबोधयत्। स्वदृष्टं ज्ञापितवानित्यर्थः। एनमिति `गतिबुद्धि-` (पा.1।4।52) इत्यादिनाणि कर्तुः कर्मत्वम् ॥

Verse 75
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः । आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुरेति॥ पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्य, उर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत्। तत्र स्थितेत्यर्थः॥

Verse 76
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धर्मलोपेति॥ ऋतुः पुष्पम्। रज इति यावत्। `ऋतुः स्त्रीकुसुमेऽपि च` इत्यमरः। ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात् स्मरन्ध्यायन्। `मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन्॥` इति शास्त्रात् प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरोनाचरितवानसि। व्यासक्ता हि विस्मरन्तीति भावः। ऋतुकालाभिगमने मनुः(3।45)- `ऋतुकालामिगामी स्यात्स्वदारनिरतः सदा` इति। अकरणे दोषमाहपराशरः-(4।15)`ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः॥` इति ॥

Verse 77
अवजानासि मां यस्मादतस्ते न भविष्यति। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अवजानासीति॥ यस्मात्कारणान्मामवजानासि तिरस्करोषि। अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप। `शप आक्रोशे` ॥

Verse 78
स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥

Verse 79
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ईप्सितमिति॥ तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम्। आप्ने तेः सन्नन्तात् क्तः, ईकारश्च। सार्गलं सप्रतिबन्धं विद्धि जानीहि। तथा हि-पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ॥

Verse 80
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्टति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हविष इति॥ सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्टति। पाताले तिष्ठतीत्यर्थः। `अधिशीङ्स्थासां कर्म` (पा.1।4।46) इति कर्मत्वम् ॥