तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥
Metre: अनुष्टुप्
हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥
Metre: अनुष्टुप्
पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ॥
Metre: अनुष्टुप्
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥
Metre: अनुष्टुप्
किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥
Metre: अनुष्टुप्
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥
Metre: अनुष्टुप्
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥
Metre: अनुष्टुप्
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥
Metre: अनुष्टुप्
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥
Metre: अनुष्टुप्
तया हीनं विधातर्मां कथं पश्यन्न दूयसे? । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥
Metre: अनुष्टुप्