रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 95 verses
Verse 61
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ दूरात् परोक्ष एव प्रशमितारिभिः। मन्त्रान्कृतवान् मन्त्रकृत्। `सुकर्मपापमन्त्रपुण्येषु कृञः` (पा.3।2।89)इति क्विप्। तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टपेषकैरिति निराक्रियन्त इव इत्युत्प्रेक्षा। `प्रत्यादेशो निराकृतिः` इत्यमरः (अ.को.3|2|31)। त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ॥

Verse 62
हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हविरिति॥ हे होतः। त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ अवग्रहो वर्षप्रतिबन्धः। `अवे ग्रहो वर्षप्रतिबन्धे` (पा.3।3।51)इत्यञ्प्रत्ययः। `वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ` इत्यमरः (अ.को.1|3|13)। तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः। अत्र मनुः(3।76)-`अग्मौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥` इति ॥

Verse 63
पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुरुषेति॥ आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। `शतायुर्वै पुरुषः` इति श्रुतेः। `अचतुर-` (पा.5।4।77)आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः, `आतङ्को भयमाशङ्का` इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। `व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्` इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । `ब्रह्महस्तिभ्यां वर्चसः` (पा.5।4।78)इत्यच्प्रत्ययः। `अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥` इति कामन्दकः ॥

Verse 64
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वयेति॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया। एवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः। अविच्छिन्ना इति यावत्। कथं न स्युः? स्युरेवेत्यर्थः॥

Verse 65
किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): किंत्विति॥ किंतु तवैतस्यां वध्यां स्नुषायाम्। `वधूर्जाया स्नुषा चैव` इत्यमरः। अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि। रत्नानि सूयत इति रत्नसूरपि। `सत्सूद्विष-` (पा.3।2।61) इत्यादिना क्विप्। मेदिनी नावति न प्रीणाति। `अव`धातू रक्षणगति प्रीत्याद्यर्थेषूपदेशादत्र प्रीणने। `रत्नसूरपि` इत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम्॥

Verse 66
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नूनमिति॥ मत्तः परं मदनन्तरम्। `पञ्चम्यास्तसिल्` (पा.5।3।7)। पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः। वंशे भवा वंश्याः पितरः। स्वधेत्यव्ययं पितृभोज्ये वर्तते। तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि। `पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः` इत्यमरः (अ.को.2|7|33)। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम्। `कामं प्रकामं पर्याप्तम्` इत्यमरः (अ.को.2|7|33)। निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥

Verse 67
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मत्परमिति॥ मत्परं मदनन्तरम्। `अन्यारात्-` (पा.2।3।29) इत्यादिना पञ्चमी। दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते। नूनमिति वितर्के। कवेष्णमिति कुशब्दस्य कवादेशः, `कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति` इत्यमरः (अ.को.1|3|39)॥

Verse 68
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति॥ इज्या यागः। `व्रजयजोर्भावे क्यप्` (पा.3।3।98) इति क्यप्प्रत्ययः। तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम्। लोक्यत इति लोकः। न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रैवालोऽचल इव। `लोकालोकश्चक्रवालः` इत्यमरः (अ.को.2|3|2)। प्रकाशत इति प्रकाशश्च देवर्णविमोचनात्। न प्रकाशत इत्यप्रकाशश्च पितॄणाविमोचनात्। पचाद्यच्। अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम्॥

Verse 69
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): लोकान्तरेति॥ समुद्भवत्यस्मादिति समुद्भवः कारणम्। तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम्। शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय। `शर्मशातसुखानि च` इत्यमरः (अ.को.1|4|26)। भवतीति शेषः॥

Verse 70
तया हीनं विधातर्मां कथं पश्यन्न दूयसे? । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तयेति॥ हे विधातः स्रष्टः! तया संतत्या हीनमनपत्यं माम्। स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम्। `वन्ध्योऽफलोऽवकेशी च` इत्यमरः (अ.को.2|4|7)। आश्रमस्य वृक्षकं वृक्षपोतमिव। पश्यन् कथं न दूयसे न परितप्यसे? `विधातः` इत्यनेन समर्थोऽप्युपेक्षस इति गम्यते॥