रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 95 verses
Verse 51
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहंगानामालवालाम्बुपायिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेकान्ते इति॥ सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः सेक्त्रीभिः। आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम्। `स्यादालवालमावालमावापः` इत्यमरः (अ.को.1|10|29)। विहंगानां पक्षिणां विश्वासाय विश्रम्भाय। `समौ विश्रम्भविश्वासौ` इत्यमरः (अ.को.1|10|29)। तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम्। ह्रस्वार्थे कप्रत्ययः ॥

Verse 52
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आतपात्ययेति॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु। `नीवारास्तृणधान्यानि` इत्यमरः। उटजानां पर्णशालानामङ्गनभूमिषु चत्वरस्थानेषु। `पर्णशालोटजोऽस्त्रियाम्` इति। `अङ्गनं चत्वराजिरे` इति चामरः। निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥

Verse 53
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अभ्युत्थितेति॥ अभ्युत्थिताः प्रज्वलिताः। होमयोग्या इत्यर्थः। `समिद्धेऽग्नावाहुतीर्जुहोति` इति वचनात्। तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः। आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः। तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम्। कुलकम्॥

Verse 54
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः । तामवारोहत्पत्नीं रथादवततार च ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। `धुरो यड्ढकौ` (पा.4।4।77) इति यत्प्रत्ययः। `धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः` इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। `विश्रमय` इति ह्रस्वपाठे `जनीजॄष्-`, इति मित्वे 1`मितां ह्रस्वः` इति ह्रस्वः। दीर्घपाठे `मितां ह्रस्वः` (पा.6।4।92) इति सूत्रे वा `चित्तविरागे` इत्यतो `वा`इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ॥

Verse 55
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ सभायां साधवः सभ्याः। `सभाया यः` (पा.4।4।104) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। `अर्हः प्रशंसायाम्` (पा.3।2।133) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। `पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37) ॥

Verse 56
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विधेरिति॥ स राजा सांयंतनस्य सायंभवस्य। `सायंचिरम्-` (पा.4।3।23) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। `अन्वास्यैनाम्` इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। `अथाग्नायी स्वाहा च हुतभुक्प्रिया` इत्यमरः (अ.को.2|7|23)। अन्वासितं हविर्भुजमिव। ददर्श। `समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥` इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। `विधेरन्ते` इति कर्मणः समाप्त्यभिधानात् ॥

Verse 57
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। `पादः पदङ्गिश्चरणो।ञस्त्रियाम` इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥

Verse 58
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ मुनिः। अतिथ्यर्थमातिथ्यम्। `अतिथेर्ञ्यः` (पा.5।4।26) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि `राज्य` शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः, तथाप्यत्र सप्ताङ्गवचनः, `उपपन्नं ननु शिवं सप्तस्वङ्गेषु`(1।60)इत्युत्तरविरोधात्। तथाह मनुः(9।194)- `स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते॥` इति। तत्र `ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥` (2।127) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-`राज्याश्रममुनिम्`इति ॥

Verse 59
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। `यतश्चनिर्धारणम्` (पा.2।3।41) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। `धर्मपथ्यर्थन्यायादनपेते` (पा.4।4।92) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। `अथर्वनिधेः` इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-`त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥ ` इति ॥

Verse 60
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । `स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि` इत्यमरः (अ.को.3|3|263)। शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु` इत्यमरः (अ.को.3|3|263)। कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि `तत आगतः` (पा.4।3।74)इत्यण्। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-`हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥`इति ॥

Showing 51 to 60 of 95 verses