रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 70 verses
Verse 51
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरंदरं बभाषे। किमिति? हे देवेन्द्र! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। `सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु` इत्यमरः (अ.को.3|3|27)। तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य। कृतमनेनेति कृती। कृतकृत्यो न खलु। `इष्टादिभ्यश्च` (पा.5।2।88) इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्॥

Verse 52
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुरुन्मुखः सन् मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः। आलीढेनालीढाख्येन स्थानभेदेन विशेषशोभिनाऽतिशयशोभिना वपुःप्रकर्षेण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन्। अतिष्ठत्। आलीढलक्षणमाह यादवः-`स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्त्रियाम्। त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति॥ अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः॥` इति ॥

Verse 53
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): रघोरिति॥ रघोरवष्टम्भमयेन स्तम्भरूपेण। `अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि` इति विश्वः। पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः। क्रुद्ध इत्यर्थः। गोत्रभिदिन्द्रोऽपि । `संभावनीये चौरेऽपि गोत्रः क्षोणीधरे मतः` इति विश्वः। नवाम्बुदानामनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्रभूते धनुषि। दिव्ये धनुषीत्यर्थः। अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ॥

Verse 54
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): दिलीपेति॥ भीमानां भयंकराणामसुराणां शोणिते रुधिरे उचितः परिचितः स इन्द्गमुक्त आशुगः सायको दिलीपसूनो रघोर्बृहद्विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वमनास्वादितम्। सुप्सुपेति समासः। मनुष्यशोणितं कुतूहलेनेव पपौ ॥

Verse 55
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): हरेरिति॥ कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः। `सप्तम्युपमान-` इत्यादिना समासः। कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य सः। तस्मिन्। शच्याः पत्रविशेषकैरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान्। निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ॥

Verse 56
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): जहारेति॥ अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च। स शकः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव। तस्मै रघवे भृशमत्यर्थं चुकोप। तं हन्तुमियेषेत्यर्थः। `क्रुधद्रुह-` (पा.1।4।37) इत्यादिना संप्रदानाञ्चतुर्थी ॥

Verse 57
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ जयैषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररध्वोः। गरुत्मन्तः पक्षवन्तः। `गरुत्पक्षच्छदाः पत्रम्` इत्यमरः (अ.को.2|5|38)। आशीविषाः। आशिषि दंष्ट्रायां विषं येषां त आशीविषाः सर्पाः। पृषोदरादित्यात्साधुः। `स्त्त्री त्वाशीर्हिताशंसाहिदंष्ट्रुयोः` इत्यमरः (अ.को.2|5|38)। त इव भीमदर्शनाः सपक्षाः सर्पा इव। द्रष्टॄणां भयावहा इत्यर्थः। तैरधोमुखैरूर्ध्वमुखैश्च। धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तथोक्तं तुमुलं संकुलं संकुलं युद्धं बभूव ॥

Verse 58
अतिप्रबन्धप्रहितास्त्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अतीति॥ वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्त्त्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसह्यत इति दुष्प्रसहं तस्य। दुःखेनाप्यसह्यस्येत्यर्थः। तेजसः प्रतापस्याश्रयं तं रघुम्। अम्बुदोऽद्भिः स्ततश्च्युतं निर्गतं वह्निमिव निर्वापयितुं न शशाक। रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वदिति भावः ॥

Verse 59
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो रघुर्हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम्। वेवेष्टि व्याप्नोतीति विट् व्यापकमोजो यस्य स तस्य बिडौजस इन्द्रस्य। पृषोदरादित्यात्साधुः। शरासनज्यां धनुर्मौर्वीम्। शशाङ्कस्यार्धः खण्ड इव मुकं फलं यस्य तेन पत्रिणाऽलुनादच्छिनत् ॥

Verse 60
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्त्रमाददे ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ विवृद्धमत्सरः प्रवृद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्प्रभामण्डलमस्त्त्रं वज्रायुधमाददे जग्राह ॥

Showing 51 to 60 of 70 verses