अनंसीच्चरणौ तस्य मन्दिरादिन्द्रजिद्व्रजन् ।अवाप्य चाऽऽशिषस्तस्मादायासीत्प्रीतिमुत्तमाम् ॥
Metre: अनुष्टुप्
गते तस्मिन्नुपारंसीत्संरम्भाद्रक्षसां पतिः ।इन्द्रजिद्विक्रमाऽभिज्ञो मन्वानो वानरं जितम् ॥
Metre: अनुष्टुप्
संसिस्मयिषमाणोऽगान्मायां व्यञ्जिजिषुर्द्विषः । जगत्पिपविषुर्वायुः कल्पान्त इव दुर्धरः ॥
Metre: अनुष्टुप्
लोकानाशिशिषोस्तुल्यः कृतान्तस्य विपर्यये । वने चिकरिषोर्वृक्षान्बलं जिगरिषुः कपेः ॥
Metre: अनुष्टुप्
रोदिति स्मेव चाऽऽयाति तस्मिन्पक्षि-गणः शुचा । मुक्त-कण्ठं हतान्वृक्षान्बन्धून्बन्धोरिवाऽऽगमे ॥
Metre: अनुष्टुप्
आश्वसीदिव चाऽऽयाति तद्वेग-पवनाऽऽहतम् । विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम् ॥
Metre: अनुष्टुप्
"न प्राणिषि दुराचार ! मायानामीशिषे न च। । नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः ॥
Metre: अनुष्टुप्
स-सैन्यश्छादयन्संख्ये प्रावर्तिष्ट तमिन्द्रिजित् । शरैः क्षुरप्रैर्मायाभिः शतशः सर्वतो मुहुः ॥
Metre: अनुष्टुप्
वानरः कुल-शैलाऽऽभः प्रसह्याऽऽयुध-शीकरम् । रक्षस्-पाशान्यशस्-काम्यंस्तमस्-कल्पानदुद्रुवत् ॥
Metre: अनुष्टुप्
धनुष्-पाशभृतः संख्ये ज्योतिष्-कल्पोरु-केशरः । दुधाव निर्नमस्-कारान्राक्षसेन्द्र-पुरस्-कृतान् ॥
Metre: अनुष्टुप्