तस्मिन्कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम् ।अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम् ॥
Metre: अनुष्टुप्
प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम् । मघोने परिमृष्यन्तमारभन्तं परं स्मरे ॥
Metre: अनुष्टुप्
व्यरमत्प्रधनाद्यस्मात्परित्रस्तः सहस्र-दृक् । क्षणं पर्यरमत्तस्य दर्शनान्मारुताऽऽत्मजः ॥
Metre: अनुष्टुप्
उपारंसीच्च संपश्यन्वानरस्तं चिकीर्षितात् । रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः ॥
Metre: अनुष्टुप्
दृष्ट्वा दयितया साकं रहीभूतं दशाननम् । नाऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः ॥
Metre: अनुष्टुप्
ततः प्राकारमारोहत्क्षपाटानविबोधयन् । नाऽयोधयत्समर्थोऽपि सीता-दर्शन-लालसः ॥
Metre: अनुष्टुप्
अध्यासीद् "राघवस्याऽहं नाशयेयं कथं शुचम् । वैदेह्या जनयेयं वा कथमानन्दमुत्तमम् ॥
Metre: अनुष्टुप्
दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान् । तस्या हि दर्शनात्पूर्वं विक्रमः कार्य-नाश-कृत् ॥
Metre: अनुष्टुप्
चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः ।अशोक-वनिकामारादपश्यत्स्तबकाऽऽचिताम् ॥
Metre: अनुष्टुप्
तां प्राविशत्कपि-व्याघ्रस्तरून-चलयन्शनैः ।अ-त्रासयन्वन-शयान्सुप्तान्शाखासु पक्षिणः ॥
Metre: अनुष्टुप्