मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके ।आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः ॥
Metre: अनुष्टुप्
अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः ।अविस्मापयमानस्तान्कपिरोटीद्गृहाद्गृहम् ॥
Metre: अनुष्टुप्
सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान् ।अवञ्चयत मायाश्च स्व-मायाभिर्नरद्विषाम् ॥
Metre: अनुष्टुप्
अपलापयमानस्य शत्रूंस्तस्याऽभवन्मतिः । "मिथ्या कारयते चारैर्घोषणां राक्षसाऽधिपः" ॥
Metre: अनुष्टुप्
गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः । नृभ्योऽपवदमानस्य रावणस्य गृहं ययौ ॥
Metre: अनुष्टुप्
दिशो द्योतयमानाभिर्दिव्य-नारीभिराकुलम् । श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम् ॥
Metre: अनुष्टुप्
नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु । जानानाभिरलं लीला-किल किंचित-विभ्रमान् ॥
Metre: अनुष्टुप्
स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः । स्वार्थं कारयमाणाभिर्यूनो मद-विमोहितान् ॥
Metre: अनुष्टुप्
कान्तिं स्वां वहमानाभिर्यजन्तीभिः स्व-विग्रहान् । नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः ॥
Metre: अनुष्टुप्
ता हनूमान्पराकुर्वन्नगमत्पुष्पकं प्रति । विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम् ॥
Metre: अनुष्टुप्