जरित्वेव जवेनाऽन्ये निपेतुस्तस्य शाखिनः । व्रश्चित्वा विवशानन्यान्बलेनाऽपातयत्तरून् ॥
Metre: अनुष्टुप्
दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी । वनं चचार कर्तिष्यन्नर्त्स्यन्निव निरङ्कुशः ॥
Metre: अनुष्टुप्
पारं जिगमिषन्सोऽथ पुनरावर्त्स्यतां द्विषाम् । मत्त-द्विरद-वद्रेमे वने लङ्का-निवासिनाम् ॥
Metre: अनुष्टुप्
"यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम् । तमप्यकर्त्स्यमद्याऽहं" वदन्नित्यचरत्कपिः ॥
Metre: अनुष्टुप्
"हते तस्मिन्प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः । तोषोऽद्यैव च सीतायाः परश्चेतसि कल्प्स्यति।" ॥
Metre: अनुष्टुप्
आहूय रावणोऽवोचदथेन्द्रजितमन्तिकात् । "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन् ॥
Metre: अनुष्टुप्
ययाथ त्वं द्विषामन्तं भूयो यातासि चाऽसकृत् । शशक्थ जेतुं त्वं देवान्मायाः सस्मर्थ संयति ॥
Metre: अनुष्टुप्
त्वं ससर्जिथ शस्त्राणि दद्रष्ठाऽरींश्च दुःसहान् । शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि ॥
Metre: अनुष्टुप्
स त्वं हनिष्यन्दुर्-बुद्धिं कपिं व्रज ममाऽऽज्ञया । मा नाऽञ्जी राक्षसीर्मायाः प्रस्तावीर्मा न विक्रमम् ॥
Metre: अनुष्टुप्
मा न सावीर्महाऽस्त्राणि मा न धावीररिं रणे । वानरं मा न संयंसीर्व्रज तूर्णमशङ्कितः।" ॥
Metre: अनुष्टुप्