अ-परीक्षित-कारिणा गृहीतां त्वमनासेवित-वृद्ध-पण्डितेन ।अ-विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !" ॥
Metre: औपच्छन्दसिक
स च विह्वल-सत्त्व-संकुलः परिशुष्यन्नभवन्महा-ह्रदः । परितः परिताप-मूर्च्छितः पतितं चाऽम्बु निरभ्रमीप्सितम् ॥
Metre: वियोगिनी
अथ लक्ष्मण-तुल्य-रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम् । कपयोऽनुययुः समेत्य रामं नत-सुग्रीव-गृहीत-साऽऽदराज्ञम् ॥
Metre: औपच्छन्दसिक
कपि-पृष्ठ-गतौ ततो नरेन्द्रौ। कपयश्च ज्वलिताऽग्नि-पिङ्गलाऽक्षाः । मुमुचुः प्रययुर्द्रुतं समीयुर्वसुधां व्योम महीधरं महेन्द्रम् ॥
Metre: औपच्छन्दसिक
स्थितमिव परिरक्षितुं समन्ता- दुदधि-जलौघ-परिप्लवाद्धरित्रीम् । गगन-तल-वसुन्ध्राऽन्तराले जल-निधिवेग-सहं प्रसार्य देहम् ॥
विष-धर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम् । घन-विपुल-नितम्ब-पूरिताशं फल-कुसुमाऽऽचित-वृक्ष-रम्य-कुञ्जम् ॥
Metre: पुष्पिताग्रा
मधु-कर-विरुतैः प्रियाध्वनीनां सरसि-रुहैर्दयिताऽऽस्य-हास्य-लक्ष्म्याः । स्फुटमनुहरमाणमादधानं पुरुष-पतेः सहसा परंप्रमोदम् ॥
Metre: पुष्पिताग्रा
ग्रह-मणि-रसनं दिवो नितम्बं विपुलमनुत्तम-लब्ध-कान्ति-योगम् । च्युत-घन-वसनं मनोऽभिरामं शिखर-करैर्मदनादिव स्पृशन्तम् ॥
Metre: पुष्पिताग्रा
प्रचपलम-गुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य । कृत-वसतिमिवाऽर्णवोपकण्ठे स्थिरम-तुलोन्नतिमूढ-तुङ्ग-मेघम् ॥
Metre: पुष्पिताग्रा
स्फठिक-मणि-गृहैः स-रत्न-दीपैः प्रतरुण-किन्नर-गीत-निस्वनैश्च ।अमर-पुर-मतिं सुराऽङ्गनानां दधतम-दुःखमनल्प-कल्प-वृक्षम् ॥
Metre: पुष्पिताग्रा