रघु-तनयमगात्तपो-वन-खं विधृत-जटाऽजिन-वल्कलं हनूमान् । परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिनाऽनुजेन ॥
कर-पुट-निहितं दधत्स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति । तनु-कपिल-घन-स्थितं यथेन्दुं नृपमनमत्परिभुग्न-जानु-मूर्धा ॥
Metre: पुष्पिताग्रा
रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-ऽमृत-रश्मि-मण्डलः । समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरो-मणिः ॥
Metre: वियोगिनी
अवसन्न-रुचिं वनाऽऽगतं तमनाऽऽमृष्टरजो-विधूसरम् । समपश्यदपेत-मैथिलिं दधतं गौरव-मात्रमात्म-वत् ॥
Metre: वियोगिनी
सामर्थ्य-संपादित-वाञ्छिताऽर्थश्चिन्ता-मणिः स्यान्न कथं हनूमान् । स-लक्ष्मणो भूमि-पतिस्तदानीं शाखा-मृगाऽनीक-पतिश्च मेने ॥
Metre: उपजातिः
"युश्मान-चेतन्क्षय-वायु-कल्पान्सीता-स्फुलिङ्गं परिगृह्य जाल्मः । लङ्का-वनं सिंह-समोऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान् ॥
Metre: इन्द्रवज्रा
"अहृत धनेश्वरस्य युधि यः समेत-मायो धनं तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् । विभव-मदेन निह्नुत-ह्रियाऽतिमात्र-संपन्नकं व्यथयति सत्-पथादधिगताऽथवेह संपन्न कम् ॥
Metre: नन्दनम्
ऋद्धि-मान्राक्षसो मूढश्चित्रं नाऽसौ यद्दुधतः । को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥
Metre: अनुष्टुप्
तस्याऽधिवासे तनुरुत्सुकाऽसौ दृष्टा मया राम-पतिः प्र-मन्युः । कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन ॥
Metre: इन्द्रवज्रा
समतां शशि-लेखयोपयाया- दवदाता प्र-तनुः क्षयेण सीता । यदि नाम कलङ्क इन्दु-लेखा- मतिवृत्तो लघयेन्न चाऽपि भावी ॥
Metre: औपच्छन्दसिक