प्रातस्तरां चन्दन-लिप्त-गात्राः प्रच्छाद्य हस्तैरधरान्वदन्तः । शाम्यन्-निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम् ॥
Metre: उपजातिः
साम्नैव लोके विजितेऽपि वामे ! किमुद्यतं भ्रू-धनुर्-प्रसह्यम् । हन्तुं क्षमो वा वद लोचनेषुर्दिग्धो विषेणेव किमञ्जनेन ॥
Metre: इन्द्रवज्रा
दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल-रागस्तृण-भार-तुल्यः । न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस्तरुणीर्युवानः ॥
Metre: इन्द्रवज्रा
सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप-हराण्युरूणि । प्रबुद्ध-नारी-मुख-पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः ॥
Metre: उपजातिः
संमृष्ट-सिक्ताऽर्चित-चारु-पुष्पै- रामोद-वद्-द्रव्य-सुगन्ध-भागैः । लक्ष्मीर्विजिग्ये भवनैः स-भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य ॥
Metre: इन्द्रवज्रा
अक्ष्णोः पतन्नील-सरो-ज-लोभाद्भृङ्गः करेणाऽल्प-धिया निरस्तः । ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस्त्र्णाऽऽतुरः पाणि-तलेऽपि धृष्णुः ॥
Metre: इन्द्रवज्रा
विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर्विभङ्गं स्तन-युग्म-वल्गितम् । विभूषणानां क्वणितं च षट्-पदो गुरुर्यथा नृत्य-विधौ समादधे ॥
Metre: वंशस्थम्
अथाऽनुकूलान्कुल-धर्म-संपदो विधाय वेशान्सु-दिवः पुरी-जनः। । प्रबोध-काले शात-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति ॥
Metre: वंशस्थम्
शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज्जलौघाः पुर-मन्दिरेभ्यः ।आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त ॥
Metre: इन्द्रवज्रा
प्रबोध-कालात्त्रिदशेन्द्र-शत्रोः प्रागूर्ध्व-शोषं परिशुष्यमाणाः । हीना महान्तश्च सम-त्वमीयुर्द्वास-स्थैरवज्ञा-पुरुषाऽक्षि-दृष्ताः ॥
Metre: इन्द्रवज्रा