संदर्शित-स्नेह-गुणः स्व-शत्रून्विद्वेषयन्मण्डलमस्य भिन्द्यात् ।इत्येवमादि प्रविधाय संधिर्वृद्धेर्विधेयोऽधिगमाभ्युपायः ॥
Metre: इन्द्रवज्रा
मत्वा सहिष्णूनपरोपजप्यान्स्वकानधिष्ठाय जलाऽन्त-दुर्गान् । द्रुमाऽद्रि-दुर्लङ्घ्य-जलाप्रधृष्यान्वर्धेत राजा रिपु-विग्रहेण ॥
Metre: उपजातिः
शक्नोति यो न द्विषतो निहन्तुं विहन्यते नाऽप्य-बलैर्द्विषद्भिः । स श्वा-वराहं कलहं विदध्या- दासीत दुर्गाऽऽदि विवर्धयंश्च ॥
Metre: उपजातिः
प्रयाण-मात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः ।अ-शक्नुवन्कर्तुमरेर्विघातं स्व-कर्म-रक्षां च परं ष्रयेत ॥
Metre: उपजातिः
एकेन संधिः कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम् ।एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहिताऽऽत्म-सारम् ॥
Metre: इन्द्रवज्रा
त्वया तु लोके जनितो विरागः प्रकोपितं मण्डलमिन्द्र-मुख्यम् । रामे तु राजन्विपरीतमेतत्पश्यामि तेनाऽभ्यधिकं विपक्षम् ॥
Metre: उपजातिः
एकेन वाली निहतः शरेण सुहृत्-तमस्ते रचितश्च राजा । यदैव सुग्रीव-कपिः परेण तदैव कार्यं भवतो विनष्टम् ॥
Metre: उपजातिः
प्राकार-मात्राऽऽवरणः प्रभावः खराऽऽदिभिर्यो निहतैस्तवाऽभूत् । लङ्काप्रदाहाऽक्ष-वध-द्रु-भङ्गैः क्लाम्यत्यसावप्यधुनाऽतिमात्रम् ॥
Metre: उपजातिः
षड्वर्ग-वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो विगुणैरुपेतः । मा पाद-युद्धं द्वि-रदेन कार्षीर्नम क्षितीन्द्रं प्रणतोपभोग्यम् ॥
Metre: उपजातिः
रामोऽपि दाराऽऽहरणेन तप्तो वयं हतैर्बन्धुभिरात्म-तुल्यैः । तप्तस्य तप्तेन यथाऽऽयसो नः संधिः परेणाऽस्तु विमुञ्च सीताम् ॥
Metre: उपजातिः