संधुक्षितं मण्डल-चण्ड-वातै- रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः । सामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद जीवाम स-बन्धु-भृत्याः ॥
Metre: उपजातिः
अ-पक्व-कुम्भाविव भङ्ग-भाजौ राजन्नियातां मरणं समानौ । वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश्चोत्तम-भूरि-वैरी ॥
Metre: उपजातिः
दण्डेन कोशेन च मन्यसे चेत्प्रकृष्टमात्मानमरेस्तथापि । रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु ॥
Metre: उपजातिः
क्लिष्टाऽऽत्म-भृत्यः परिमृग्य-सम्पन्मानी यतेताऽपि स-संशयेऽर्थे । संदेहमारोहति यः कृताऽर्थो नूनं रतिं तस्य करोति न श्रीः ॥
Metre: इन्द्रवज्रा
शक्यान्य-दोषाणि महा-फलानि समारभेतोपनयन्समाप्तिम् । कर्माणि राजा विहिताऽनुरागो विपर्यये स्याद्वितथः प्रयासः ॥
Metre: उपजातिः
जेतुं न शक्यो नृ-पतिः सु-नीतिर्दोषः क्षयाऽऽदिः कलहे ध्रुवश्च । फलं न किंचिन्न शुभा समाप्तिः कृताऽनुरागं भूवि संत्यजाऽरिम् ॥
Metre: उपजातिः
त्वन्-मित्र-नाशो निज-मित्र-लाभः समेत-सैन्यः स च मित्र-कृच्छ्रे । भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न कोऽर्थः ॥
Metre: उपजातिः
लोभाद्भयाद्वाऽभिगतः कपीन्द्रो न राघवं येन भवेद्विभेद्यः । स्थितः सतां वर्त्मनि लब्ध-राज्यः प्रति-प्रियं सोऽभ्यगमच्चिकीर्षुः ॥
Metre: उपजातिः
फलाशिनो निर्झर-कुञ्ज-भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः । न्यग्-जातयो रत्न-वरैरलभ्या मुख्याः कपीनामपि नोपजप्याः ॥
Metre: उपजातिः
कृताऽभिषेको युवराज-राज्ये सुग्रीव-राजेन सुताऽविशेषम् । तारा-विधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसाऽर्थम् ॥
Metre: उपजातिः