पश्यामि रामादधिकं समं वा नाऽन्यं विरोधे यमुपाश्रयेम । दत्त्वा वरं साऽनुशयः स्वयम्भू- रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः ॥
Metre: इन्द्रवज्रा
दुर्गाऽऽश्रितानां बहुनाऽपि राजन् ! कालेन पार्ष्णिग्रहणाऽऽदि-हेतुः । दुर्गोपरोधं न च कुर्वतोऽस्ति शत्रोश्चिरेणाऽपि दशाऽऽस्य ! हानिः ॥
Metre: इन्द्रवज्रा
शस्त्रं तरूर्वी-धरमम्बु पानं वृत्तिः फलैर्नो गज-वाजि-नार्यः । राष्ट्रं न पश्चान्न जनोऽभिरक्ष्यः किं दुःस्थमाचक्ष्व भवेत्परेषाम् ॥
Metre: इन्द्रवज्रा
संधानमेवाऽस्तु परेण तस्मान्नाऽन्योऽभ्युपायोऽस्ति निरूप्यमाणः । नूनं वि-संधौ त्वयि सर्वमेतन्नेष्यन्ति नाशं कपयोऽचिरेण।" ॥
Metre: इन्द्रवज्रा
विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम-नम्रम् । स्खलद्-वलिर्वार्धक-कम्प्र-मूर्धा मातामहो रावणमित्युवाच ॥
Metre: उपजातिः
"एकः पदातिः पुरुषो धनुष्मान्योऽनेक-मायानि वियद्-गतानि । रक्षः-सहस्राणि चतुर्दशाऽऽर्दीत्का तत्र वो मानुष-मात्र-शङ्का ॥
Metre: इन्द्रवज्रा
ब्रह्मर्षिभिर्नूनमयं स-देवैः संतापितौ रात्रिचर-क्षयाय । नराऽऽकृतिर्वानर-सैन्यशाली जगत्य-जय्यो विहितोऽभ्युपायः ॥
Metre: उपजातिः
वज्राऽभिघातैर-विरुग्ण-मूर्तेः फेणैर्जलानामसुरस्य मूर्ध्नः । चकार भेदं मृदुभिर्महेन्द्रो यथा तथैतत्किमपीति बोध्यम् ॥
Metre: उपजातिः
क्व स्त्री-विषह्याः करजाः क्व वक्षो दैत्यस्य शैलेन्द्र-शिला-विशालम् । संपश्यतैतद्द्युसदां सुनीतं बिभेद तैस्तन्नर-सिंह-मूर्तिः ॥
Metre: उपजातिः
प्रमाद-वांस्त्वं क्षत-धर्म-वर्त्मा गतो मुनीनामपि शत्रु-भावम् । कुलस्य शान्तिं बहु मन्यसे चेत्कुरुष्व राजेन्द्र ! विभीषणोक्तम्।" ॥
Metre: उपेन्द्रवज्रा