मार्गं गतो गोत्र-गुरुर्भृगूणा- मगस्तिनाऽध्यासित-विन्ध्य-शृङ्गम् । संदृश्यते शक्र-पुरोहितोऽह्नि क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः ॥
Metre: उपजातिः
मांसं हतानामिव राक्षसाना- माशंसवः क्रूर-गिरो रुवन्तः । क्रव्याऽशिनो दीप्त-कृशानु-वक्त्रा भ्राम्यन्त्य-भीताः परितः पुरं नः ॥
Metre: इन्द्रवज्रा
पयो घटोध्नीरपि गा दुहन्ति मन्दं वि-वर्णं वि-रसं च गोपाः । हव्येषु कीटोपजनः स-केशो न दीप्यतेऽग्निः सु-समिन्धनोऽपि ॥
Metre: उपजातिः
तस्मात्कुरु त्वं प्रतिकारमस्मिन्स्नेहान्मया रावण ! भाष्यमाणः । वदन्ति दुःखं ह्यनुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम् ॥
Metre: उपजातिः
विरुग्ण-संकीर्ण-विपन्न-भिन्नैः पक्षुण्ण-संह्रीण-शिताऽस्त्र-वृक्णैः । यावन्नराऽशैर्न रिपुः शवऽशान्संतर्पयत्यानम तावदस्मै।" ॥
Metre: उपजातिः
भ्रू-भङ्गमाधाय विहाय धैर्यं विभीषणं भीषण-रूक्ष-चक्षुः । गिरं जगादोग्र-पदामुदग्रः स्वं स्फावयन्शक्र-रिपुः प्रभावम् ॥
Metre: उपजातिः
"शिला तरिष्यत्युदके न पर्णं ध्वान्तं रवेः स्यन्त्स्यति वह्निरिन्दोः । जेता परोऽहं युधि जेष्यमाणस्तुल्यानि मन्यस्व पुलस्त्य-नप्तः ! ॥
Metre: उपजातिः
अ-निर्वृतं भूतिषु गूढ-वैरं सत्कार-कालेऽपि कृताऽभ्यसूयम् । विभिन्न-कर्माऽऽशय-वाक्कुले नो मा ज्ञाति-चेलं भुवि कस्यचिद्भूत् ॥
Metre: उपजातिः
इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्य-कुलस्य लक्ष्मीम् । नमन्ति शत्रून्न च बन्धु-वृद्धिं संतप्यमानैर्हृदयैः सहन्ते ॥
Metre: उपजातिः
त्वयाऽद्य लङ्काऽभिभवेऽति-हर्षाद्दुष्टोऽति-मात्रं विवृतोऽन्तरात्मा । धिक्त्वां मृषा ते मयि दुस्थ-बुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम् ॥
Metre: उपजातिः