घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः ष्रुत-कार्य-सारः । स्फुरद्-घनः साऽम्बुरिवाऽन्तरीक्षे वाक्यं ततोऽभाषत कुम्भकर्णः ॥
Metre: उपजातिः
"क्रिया-समारम्भ-गतोऽभ्युपायो नृ-द्रव्य-सम्पत्सह-देश-कला । विपत्-प्रतीकार-युताऽर्थ-सिद्धिर्मन्त्राऽङ्गमेतानि वदन्ति पञ्च ॥
Metre: उपजातिः
न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु योऽतियायात् । स प्राप्नुयान्मन्त्र-फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र ! ॥
Metre: उपजातिः
औष्ण्यं त्यजेन्मध्य-गतोऽपि भानुः शैत्यं निशायामथवा हि-मांशुः ।अनर्थ-मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि-नाथ ! ॥
Metre: उपजातिः
तथाऽपि वक्तुं प्रसभं यतन्ते यन्मद्-विधाः सिद्धिमभीप्सवस्त्वाम् । विलोम-चेष्टं विहिताऽवहासाः परैर्हि तत्स्नेह-मयैस्तमोभिः ॥
Metre: उपजातिः
क्रूराः क्रियाः ग्राम्य-सुखेषु सङ्गः पुण्यस्य यः संक्षय-हेतुरुक्तः । निषेवितोऽसौ भवताऽतिमात्रं फलत्य-वल्गु ध्रुवमेव राजन् ! ॥
Metre: उपजातिः
दत्तं न किं के विषया न भुक्ताः स्थितोऽस्मि वा कं परिभूय नोच्चैः ।इत्थं कृताऽर्थस्य मम ध्रुवं स्यान्मुत्युस्त्वदर्थे यदि किं न लब्धम् ॥
Metre: उपजातिः
किं दुर्नयैस्त्वय्युदितैर्मृषाऽर्थैर्वीर्येण वक्ताऽस्मि रणे समाधिम्।" । तस्मिन्प्रसुप्ते पुनरित्थमुक्त्वा विभीषणोऽभाषत राक्षसेन्द्रम् ॥
Metre: उपजातिः
"निमित्त-शून्यैः स्थगिता रजोभिर्दिशो मरुद्भिर्विकृतैर्विलोलैः । स्वभाव-हीनैर्मृग-पक्षि-घोषैः क्रन्दन्ति भर्तारमिवाऽभिपन्नम् ॥
Metre: उपजातिः
उत्पात-जं छिद्रमसौ विवस्वान्व्यादाय वक्त्राऽऽकृति लोक-भीष्मम् ।अत्तुं जनान्धूसर-रश्मि-राशिः सिंहो यथा कीर्ण-सटोऽभ्युदेति ॥
Metre: इन्द्रवज्रा