गुरूरु-चञ्चत्-कर-कर्ण-जिह्वै- रवज्ञयाऽग्राऽङ्गुलि-संगृहीतैः । रक्षाम्स्यनायास-हृतैरुपास्थुः कपोल-लीनाऽलि-कुलैर्गजेन्द्रैः ॥
Metre: उपजातिः
निकृत्त-मत्त-द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर्हरयोऽग्र-पादैः ।आनिन्यिरे श्रेणिकृतास्तथाऽन्यैः परस्परं वालधि-सन्निबद्धाः ॥
Metre: उपजातिः
उपेक्षिता देव-गणैस्त्रसद्भिर्निषा-चरैर्वीत-भयैर्निकृत्ताः । तस्मिन्नदृश्यन्त सुर-द्रुमाणां स-जाल-पुष्प-स्तबकाः प्रकीर्णाः ॥
Metre: उपजातिः
निराकरिष्णुर्द्विज-कुञ्जराणां तृणीकृताऽशेष-गुणोऽति-मोहात् । पापाऽशयानभ्युदयाऽर्थमार्चीत्प्राग्ब्रह्म-रक्षः-प्रवरान्दशाऽऽस्यः ॥
Metre: उपजातिः
मायाविभिस्त्रास-करैर्जनाना- माप्तैरुपादान-परैरुपेतः । सतां विघातैक-रसैरविक्षत्सदः परिक्षोभित-भूमि-भागम् ॥
Metre: उपजातिः
विघृत-निशित-शस्त्रैस्तद्युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः । श्वगणि-शत-विकीर्णं वागुरा-वन्मृगीभिर्वनमिव स-भयाभिर्देव-बन्दीभिरासीत् ॥
Metre: मालिनी
जलद इव तडित्वान्प्राज्य-रत्न-प्रभाभिः प्रति-ककुभमुदस्यन्निस्वनं धीर-मन्द्रम् । शिखरमिव सुमेरोरासनं हैममुच्चैर्विविध-मणि-विचित्रं प्रोन्नतं सोऽध्यतिष्थत् ॥
Metre: मालिनी