गिरि-परिगत-चञ्चलाऽऽपगाऽन्तं जल-निवहं दधतं मनोऽभिरामम् । गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन-शुक्ल-चीन-पट्टम् ॥
Metre: पुष्पिताग्रा
अ-परिमित-महाऽद्भुतैर्विचित्रश्च्युत-मलिनः शुचिभिर्महान-लङ्घ्यैः । तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रैः समधिगतो जलधिः परं बभासे ॥
Metre: पुष्पिताग्रा
न भवति महिमा विना विपत्ते- रवगमयन्निव पश्यतः पयोधिः ।अ-विरतमभवत्क्षणे क्षणेऽसौ शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः ॥
Metre: पुष्पिताग्रा
मृदुभिरपि बिभेद पुष्प-बाणैश्चलशिशिरैरपि मारुतैर्ददाह । रघु-तनयमनर्थ-पण्डितोऽसौ न च मदनः क्षतमाततान्नाऽर्चिः ॥
अथ मृदु-मलिन-प्रभौ दिनाऽन्ते जलधि-समीप-गतावतीत-लोकौ ।अनुकृतिमितरेतरस्य मूर्त्योर्दिन-कर-राघव-नन्दनावकार्ष्टाम् ॥
Metre: पुष्पिताग्रा
अपहरदिव सर्वतो विनोदान्दयित-गतं दधदेकधा समाधिम् । घन-रुचि ववृधे ततोऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन ॥
Metre: पुष्पिताग्रा
अधि-जलधि तमः क्षिपन्हिमांशुः परिददृशेऽथ दृशां कृताऽवकाशः । विदधदिव जगत्पुनः प्रलीनम्। भवति महान्हि पराऽर्थ एव सर्वः ॥
Metre: पुष्पिताग्रा
अशनिरयमसौ कुतो निरभ्रे। शित-शर-वर्षम-सत्तदप्य-शार्ङ्गम्। ।इति मदन-वशो मुहुः शशाऽङ्के रघु-तनयो न च निश्चिकाय चन्द्रम् ॥
Metre: पुष्पिताग्रा
कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेशु च दिग्-वधू-मुखेषु । वियति च विललास तद्-वदिन्दुर्विलसति चन्द्रमसो न यद्-वदन्यः ॥
Metre: पुष्पिताग्रा
शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत-चन्द्र-रश्म्यरातौ । पृथु-विषम-शिलाऽन्तराल-संस्थं स-जल-घन-द्युति भीत-वत्ससाद ॥
Metre: पुष्पिताग्रा