अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत-सीताम् । सह-रघुतनयाः प्लवङ्ग-सेनाः पवन-सुताऽङ्गुलि-दर्शितामुदक्षाः ॥
Metre: पुष्पिताग्रा
जल-निधिमगमन्महेन्द्र-कुञ्जात्प्रचय-तिरोहित-तिग्म-रश्मि-भासः । सलिल-समुदयैर्महा-तरङ्गैर्भुवन-भर-क्षममप्य-भिन्न-वेलम् ॥
Metre: पुष्पिताग्रा
पृथु-गुरु-मणि-शुक्ति-गर्भ-भासा ग्लपित-रसा-तल-संभृताऽन्धकारम् ।उपहत-रवि-रश्मि-वृत्तिमुच्चैः प्रलघु-परिप्लवमान-वज्र-जालैः ॥
Metre: पुष्पिताग्रा
समुपचित-जलं विवर्धमानै- र-मल-सरित्-सलिलैर्विभावरीषु । स्फुटमवगमयन्तमूढ-वारीन्शश-धर-रत्न-मयान्महेन्द्र-सानून् ॥
Metre: पुष्पिताग्रा
भुवन-भर-सहान-लङ्घ्य-धाम्नः पुरु-रुचि-रत्न-भृतो गुरूरु-देहान् । श्रम-विधुर-विलीन-कूर्म-नक्रान्दधतमुदूढ-भुवो गिरीनहींश्च ॥
Metre: पुष्पिताग्रा
प्रददृशुरुरु-मुक्त-शीकरौघान्विमल-मणि-द्युति-संभृतेन्द्र-चापान् । जल-मुच इव धीर-मन्द्र-घोषान्क्षिति-परिताप-हृतो महा-तरङ्गान् ॥
Metre: पुष्पिताग्रा
विद्रुम-मणि-कृत-भूषा मुक्ता-फल-निकर-रञ्जिताऽऽत्मानः । बभुरुदक-नाग-भग्ना वेला-तट-शिखरिणो यत्र ॥
Metre: आर्या
भृत-निखिल-रसा-तलः स-रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः । कुत इह परमाऽर्थतो जलौघो जल-निधिमीयुरतः समेत्य मायाम् ॥
Metre: पुष्पिताग्रा
शशि-रहितमपि प्रभूत-कान्तिं विबुध-हृत-श्रियमप्य-नष्ट-शोभम् । मथितमपि सुरैर्दिवं जलौघैः समभिभवन्तम-विक्षत-प्रभावम् ॥
Metre: पुष्पिताग्रा
क्षिति-कुल-गिरि-शेष-दिग्-गजेन्द्रान्सलिल-गतामिव नावमुद्वहन्तम् । धृत-विधुर-धरं महा-वराहं गिरि-गुरु-पोत्रमपीहितैर्जयन्तम् ॥
Metre: पुष्पिताग्रा